मन्दं चिरं जगति वर्षति मेघमाला
नीडोद्भवो नभसि कूजति चारुभाषः।
नीलोत्पलानि विकसन्ति सरोवरेषु
सच्छ्रावणे मनसि भाति नवोऽभिलाषः।।
वेदप्रधानमधुरध्वनिभावप्रीत्या
मन्दारपुष्पचयमालिकया विशिष्य।
प्रीणाति भक्तिकुशलो भुवि देवदेवं
सच्छ्रावणे सकललोककलामहेशम्।।
भक्ताः प्रसन्नमनसो जयघोषवेशाः
श्रद्धान्विताः परमशैवविभाभिषिक्ताः।
नृत्यन्ति ते पथिषु यन्नयनाभिरामाः
सच्छ्रावणे नवलरागवितानशीलाः।।
दीर्घाध्वनि स्थितजनाः शिवदर्शनार्थं
बम्बं रवं विदधतीति सदा सहर्षम्।
सिञ्चन्ति लिङ्गमतुलं सुजलाभिषेकैः
सच्छ्रावणे दधिपयोघृतदिव्यलेपैः।।
सज्जीकृतानि कुसुमैश्शिवमन्दिराणि
विद्युल्लताललितया सुमनोहराणि ।
नानारसालफलचारुरसं पिबन्तः
सच्छ्रावणे प्रकृतिवादिशिवांशभक्ताः।।
बिल्वैर्नवैस्सुखकरैः प्रभुवैद्यनाथ
वाशु प्रसीदति कलौ प्रभुविश्वनाथ।
लोकाय सौख्यमपरं प्रददाति शम्भो
सच्छ्रावणे भवतु शं सुमनोविलासः।।