पुण्यं सुखं प्रसूते पापं च कष्टजालम्
निन्दन्ति सर्वलोकाः तं किन्त्वदोषकालम्॥१
नॄणां मुखात् प्रवाहो मधुरामृतस्य किन्तु
हृदये निगूढमास्ते हा कालकूटजालम्॥२
पठनक्षमं मनोज्ञं ज्ञात्वाऽपि शैशवास्थम्
को याचितुं विधत्ते विवशं पथि स्वबालम्॥३
तिलकं ललाटदेशे नः स्यात् सदैव मानात्
यो वक्ति तस्य शून्यं पश्यामि हन्त भालम्॥४
गाथा विरच्य लोके ख्यातोऽस्ति किन्तु गाथा
नो गीयतेऽद्य रसिकैर्भूयः स्मरन्तु हालम्॥५
अयमस्ति मे सखेति ज्ञात्वा परो न वेत्ति
प्रस्तौति सख्यमाहोस्विद् वञ्चनाय चालम्॥६
यास्यामि तद्दलेऽहं भूयो न किन्तु तस्मिन्
उक्त्वाऽपि याति नेता मध्येविशालशालम्॥७
चेन्निश्चयो दृढः स्यादायाति रामराज्यम्
कर्तुं खला अयोध्यां लङ्कां छलेन नाऽलम्॥८
भ्रष्टः कियान् समाजः चित्रं हि तस्य पश्य
श्रयते सुरामलज्जो वीक्ष्याऽपि हस्तमालम्॥९