किमिदं लोकचरित्रम्
हत: पितामह! येन पिता वा येन निन्दिता माता
भवति समाजे कथं स लोकैर्मान्यो भाग्यविधाता।।
यस्य सेवका लोकतर्जने तथा लुण्ठने व्यस्ता
भवति जनानां मध्ये स्थित्वा स शिवतुल्यो दाता।।
नित्यं यो वा सुरासेवने सक्तो गर्वविलासी।
पितृप्रसादात् भवती विशिष्टो स विद्वानधिकारी।।
तस्य स्तवने लीन: कश्चित् स्मरति न पूर्वचरित्रम्।
येन शोषितस्तेन पूरित: किमिदं लोकचरित्रम्।।
सदा निन्दने सदा वन्दने प्रचलति जीवनगाथा।
दोषगोपने भवति कुशलता पुण्यदर्शने बाधा।।
वदतु पितामह! शास्त्रकथाया: लोके क्वास्ति प्रभाव:।
नो चेत् तस्या गानेनाद्य कथं जीविष्ययति भाव:।।
अयि पौत्रक! यत्पश्यसि. सत्यं तत् नहि को$पि विरोध:।
शास्त्रं किन्तु करिष्यति काले लोकं भावसमृद्धम्।।