दूरभाषध्वनिं ये नो मे शृण्वन्त्यादरात् सुखम्।
तेषामेव ध्वनिं श्रोतुं प्रबुद्धो$स्मि दिवानिशम्।। १
सन्देशं न पठन्ति ये प्रेषितं मित्रबान्धवैः।
पठितव्यो न सन्देशस्तेषां सम्प्रेषितं तथा।। २
ये कालं नैव यच्छन्ति परस्मै व्यस्ततामुखाः।
आत्मने कालमिच्छन्ति परस्येमे विलक्षणाः।। ३
प्रणम्या दूरतः सर्वे निर्व्याजं व्याजभाषिणः।
मादृशैः सर्वथा प्रेम्णा भवद्भिर्मानिभिर्ध्रुवम्।। ४
इयमेका व्यथा लोके सुहृदां कवितास्वरैः।
सारिता सह्यतां धीरैर्व्यवहारविचक्षणैः।। ५