कुरुत रक्षणं हे जनाः कन्यकानाम्।
कन्या विना नैव कल्प्यं हि विश्वम्।।
समयः कथम् अद्य सन्दृश्यते हा।
गर्भे सुकन्या खलु हन्यते सा।
करुणक्रन्दनं दिक्षु व्याप्तं तदीयम्।
कन्यां विना……….।
गृहं नो विना तां किञ्चिद्विभाति।
सुखं नैव तत्र स्वल्पं चकास्ति।
भासते सदा तद्विपिनतुल्यगेहम्।
कन्यां विना………………..।
हसति कन्यका यत्र गेहे सदैव।
देवा रमन्ते तत्र स्वर्गं तदेव।
परिवारसूत्रं नूनं वयति समोदम्।
कन्यां विना……….।
कथं चिन्तनं हा कुरुते मनुष्यः।
वाञ्छति वधूं स रक्षति न कन्याम्।
विना कन्यकां क्व वधूर्लभ्यते रे!
कन्यां विना………..।
नर हे विचारय किञ्चित्त्वमेव।
कन्या हि माता दुहिता च सैव।
कन्या प्रपुष्णाति प्रसूते त्वामेव।
कन्यां विना……….।







