श्रीगणेशेन सिद्ध्यै च बुद्ध्यै हृदा
शङ्करेणेह सार्द्धं भवान्या तथा।
विष्णुना पद्मया सागरे क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।।01।।
सीतया रामचन्द्रेण सार्द्धं मुदा
राधिकारुक्मिणीसत्यभामादिभि:।
धावता माधवेनेह सङ्क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।। 02।।
सीम्नि रक्षारतैर्भारते सैनिकै:
दुष्टपाकस्थितानां सदा शत्रुणाम्।
रक्तरङ्गेण तैर्नित्यश: क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।।03।।
भार्यया चैव भर्त्रा सुकान्तादिभि:
कान्तवर्यैरहो! प्रेमिकाप्रेमिभि:।
मोदमानैर्मिथश्चेतसा क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।।04।।
वृद्धकैर्वृद्धिकाभिर्गुलालैस्तथा
बालकैर्बालिकाभिश्च पङ्कैरहो!।
हा!वयस्थैर्वयस्थादिभि: क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।।05।।
त्यज्यतां चित्तकालुष्यमेवात्मन:
शत्रुता द्वेषभावोsधुना सर्वत:।
दृश्यतां तैर्हि सर्वै: कथं क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।।06।।
शिष्यवृन्दैर्निजैश्शिक्षकै: पूज्यकै:
मित्रवर्यैर्निजैर्मित्रवर्यै: प्रियै:।
सार्द्धमुत्साहभावैरहो!क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।।07।।
स्वां शुभां कामनां पूर्वतोsहं शशी
होलिकाया: प्रयच्छामि काव्यात्मना।
सौख्यभावेन सर्वैरियं क्रीड्यते
होलिका मोददा स्याद्भवद्भ्यस्सखे!।। 08।।