भिक्षाटनेन खलु जीवनयापकानां
हस्ते कदापि पतितं नवराजपत्रम्।
दृष्ट्वैव तत् विकटनर्तनदीक्षितास्ते
भस्मासुरप्रियतमानुगतामवापु:।।1
विस्मृत्य पूर्वचरितं मदमत्ततायां
स्वस्वामिनां सुचरितं मनसा निनिन्दु:।
स्वोत्कृष्टभावविनिदर्शनमेव सर्वं
मत्वा जगत्त्रयभुवामधिपा बभूवु:।।2
कस्यापि मानदलनेन निजप्रतिष्ठां
मत्वा स्वबान्धवजनैस्सततं सयत्ना:।
संस्कारसाररचनामपि वारबालां
कृत्वात्मदुष्टचरितस्मयनं वितेनु:।।3
लोकाधिकारिगणतर्जनमेव मानं
मत्वा तदीययशसि ज्वलनप्रवाहम्।
प्रक्षिप्य लोकभवनांगणरक्षकानां
दायित्वशिक्षणकलागुरवो बभूवु:।।4
एते द्विजिह्वकुलमौलिविभूषणा ये
तेषां गतिर्भवितुमर्हति कीदृशीति।
संचिन्त्य भिक्षुककलाकुशलावलीनां
मिथ्यार्तभावमनिशं परिशोधयन्तु।।5