रमते मनः क्वचिन्न चेच्चायं हि पीयताम्।
रमते मनः क्वचिद्धि चेच्चायं हि पीयताम्।।
शैत्येन बाधते वपुः ह्यङ्गं च वेपते।
कान्ताकरेण चेत्सखे चायं हि पीयताम्।।01।।
रमते मनः………………………………
मित्राणि बन्धुबान्धवा गृहमागता यदा।
सार्द्धं समैस्सखे तदा चायं हि पीयताम्।।02।।
रमते मनः…………………………….
कार्याणि चेद् बहूनि ते पतितानि मस्तके।
मध्ये तदा यदा कदा चायं हि पीयताम्।।03।।
रमते मनः……………………………
चिन्तान्विता मतिर्भवेत् क्लेशान्वितं मनः।
कालो न याति कष्टदश्चायं हि पीयताम्।।04
रमते मनः…………………………….
यदि कान्तया सखे त्वया भ्रमणं विधीयते।
प्रियस्नेहशर्करायुतं चायं हि पीयताम्।।05।।
रमते मनः……………………………..
कटुता सखे समागता सम्बन्धरक्षणे।
सार्द्धं कुटुम्बिभिस्त्वया चायं हि पीयताम्।।06।।
रमते मनः……………………………..
पठनेsथ पाठनेsथवा भ्रमणे प्रतीक्षणे।
यदि श्रान्तता समागता चायं हि पीयताम्।।07।।
रमते मनः…………………………….
निद्रा न याति नेत्रयोर्देहेsस्ति वेदना।
किञ्चित्तदा सखे! ध्रुवं चायं हि पीयताम्।।08।।
रमते मनः……………………………
रोगश्च शर्करा यदा देहे समागतः।
ननु शर्करां विना त्वया चायं हि पीयताम्।।09।।
रमते मनः…………………………….
विक्रीय चायमद्भुतं याने पथि ह्यसौ।
जातः प्रधानसेवकश्चायं हि पीयताम्।।10।।
रमते मनः……………………………
किमपीह शाश्वतं सखे! नहि भूतले ध्रुवम्।
चिन्तां विहाय हे शशिन्! चायं हि पीयताम्।।11।।
रमते मनः………………………………..
रमते मनः क्वचिन्न चेच्चायं हि पीयताम्।
रमते मनः क्वचिद्धि चेच्चायं हि पीयताम्।।





