स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्
य ईक्षते सदा परं स्वकार्यसिद्धये जनः
स मन्यते महाविमूढमानवः कलौ बुधः।
गिरिं समुन्नतं विलोक्य यस्तु कम्पते$निशं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। १
सदैव कार्यकारिणं क्रियाकलापसाधकं
महालसा विनिन्दया स्तुवन्ति के न मानदम्?
शनैःशनैः करोति यस्त्वनिष्ठया क्रियार्पणं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। २
अलाभलाभमानसः परोपकारपारगः
पराश्रितः पदे -पदे निहन्यते तिरस्कृतः।
अतस्त्यजन् समर्थनं विहाय लोकनिन्दनं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। ३
न किं प्रकाशते घनान्धकारलीनभास्करः
न किं विभां किरत्यमाहतः प्रियः सुधाकरः।
विलोक्य सर्पवक्रतां य एति नो पदान्तरं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। ४
फलं तरोर्न वामनो जनो निजेन पाणिना
चिकीर्षुराप्नुवन् विलोक्यते वनेषु चोन्मनाः।
रसो$पि निन्दतीव तं मुदा$क्रियं सदा$वरं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। ५
पराश्रये खगो नभो न पश्यतीव पञ्जरात्
शुकः स्वपक्षचालनैः खमुत्पतंस्तु विस्मयात्?
मनो वशे न यस्य कार्यपादने विलक्षणं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। ६
भवन्ति मौनिनः कथं हिमालयस्य कन्दरा-
लया विनष्टलालसास्तपःप्रतापतापिताः।
न विन्दते कलौ य आत्मवान् नरः श्रुतः सुखं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। ७
नवारविन्दपञ्चचामराभिधा सुमालिका
प्रदीयते कविभ्य एव नो खलाय कल्पिता।
विवृद्धभोगपीवरो य आश्रयो मतो$सतां
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्।। ८