अम्ब ! बिम्बमपि दर्शय !
अम्ब! बिम्बमपि दर्शय !
हृदयमरौ निजविमलवचोभिर्नवपीयूषं वर्षय!!
बाल्यादेव जपन्ती नित्यं
नामरसं रसना,
सम्प्रति शुभविस्रम्भयुता
जाता कोमलवचना,
जननि ! जनय हृदि शुभरागम्मे
योजय चित्तन्तून्,
बद्धाञ्जलिरिह भावभरैषा
वक्ति विनयरचना !
चिन्तामग्नोपवनकलाकलिका अधुना त्वं हर्षय !!
त्वय्याशास्ति सुस्थिरा मात-
र्मे लोकेऽलोके,
जीवति रहसि तवाश्रितवाणी
किल शोकेऽशोके,
सम्पदि विपदि भजाम्यहर्निशं
नवरससरसधिया,
विश्वलोचने! नोन्मीलित-
दृग्भ्यामहमयि लोके!
सप्तस्वरसन्धानदक्षकच्छपीरुतैराकर्षय!!
जगति जीर्णता सततमेधते
मधुप्रतीक्षायाम्,
मृत्युरेव सादरं स्थीयते
जीवनशिक्षायाम्,
परिवर्त्तनशीले संसारे
वाणि! रुचिरवदने !
याचेऽहं कुरु निरपेक्षो मां
विषयसमीक्षायाम् !
पुत्रवत्सले ! सकलकले ! शुचिभावोपरि मा मर्षय !!