कुन्तककल्पितमधुरवक्रता नत्यति यत्र सदा सरसा
तत्रान्त:करणे मधुधारां धृत्वापीह नदी विरसा।
तज्जलमेव निपीय न जाने कुटिला वक्रा मदमत्ता
समागतास्त्यधुना पुरतस्तव हे सज्जन रुचिरा कविता।।1
शिवालयाच्छिवतामपहृत्य शिवांगी नृत्यति हे शिव हे
धनमदमत्तपिशाचकुलाधिपतनयं पश्यति हे शिव हे।
अभिमतलाभमवाप्य मनोजधनो: रणनं शिवदं शुभदं
भवति सदा कृपया तव शंकर सत्यमिदं वचनं शिव हे।।2
सुरालये$सुरकिंकरवदनं चुम्बति या$मरकमनीया
सा भवतीह सुरेश्वरसदने ललिता हृद्या रमणीया।
मदगजगन्धमवाप्य हरेरलसं वदनं विनिवीक्ष्य मृगी
वदति मृगं विपिने नहि कापि लता विहसिष्यति रसनीया।।3
गुञ्जति चञ्चलमधुपमण्डली किन्तु लताया व्याकुलता
परभृतिकापंचमकलगानं किन्तु न काननसुन्दरता।
पण्यमत्र लतिकालावण्यं विक्रेत्री खलु वासन्ती
मदन: पृच्छति रे वसन्त मच्छरासने न कथं मृदुता।।4
प्रतिपदमत्र सखे विभ्रमता विलसति रक्तमुखी दिव्या
चित्रकवेरपि मधुरकल्पना शुष्कसरोवरलावण्या।
कविताया: क्व नु हृदयतोषणं भवति कवेर्मधुरालापै:
सा स्वच्छन्दतया गमने रमणे शयने कुशला धन्या।।5