लट्ठं विना नहि वने पशुचारणं स्यात्
लट्ठं विना नहि कृषेरपि रक्षणं स्यात्।
स्नेहेन चौरहृदये मृदुता क्व दृष्टा
लट्ठेन तस्य मनस: परिवर्तनं स्यात्।।1
लट्ठं करे भवति यस्य करे कदाचित्
तन्मार्गरोधनपरो नहि कुक्कुरो$पि।
मार्गे सदा दशति य: पथिकं तमेव
ज्ञात्वा प्रमत्तमिव यस्त्यजति प्रसन्न:।।2
लट्ठं विहाय किल टंकितकर्गजं यो
हस्ते निधाय चलतीह बलीव मार्गे।
नित्यं श्वदष्टवदन: परिपीडितस्सन
रुग्णालये नियमित: शपति स्वपत्रम्।।3
लट्ठस्तु यस्य करभूषणमेव लोके
नाट्यस्थितो भवति हासकर: स्वयं स:।
तच्चालने भवति य: कुशलस्तदर्थं
निर्बाधमार्गरचनैव कृता विधात्रा।।4
लट्ठेन यद्भवति तन्न विनिग्रहेण
शुल्केन नैव नहि वा गृहबन्धनेन।
दुष्टान् प्रसाधयितुमिच्छसि चेत्कदाचित्
लट्ठांकनेन कुरु तद्वदनं विचित्रम्।।5
लट्ठं प्रणम्य गृहतस्सरणं भवेत्ते
लट्ठप्रचालनरतेरपि पूजनं स्यात्।
शीघ्रं निजार्चनफलं प्रवितीर्य दुष्टात्
त्वद्रक्षणं प्रतिपदं स विधास्यतीति।।6
लट्ठस्य निन्दनफलं कुलमूलनाशं
प्राप्नोति वाप्स्यति जनश्चिरगर्वितो$पि।
नूनं तदर्चनफलं समवाप्य कश्चित्
गर्वोन्नतो भ्रमति चात्र चरिष्यतीति।।7
लट्ठ! त्वमेव जनमंगलकारको$सि
त्वञ्चैव दुष्टजनमानसमर्दको$सि।
त्वद्दर्शनं हि खलगर्वविशालशैलं
भेत्तुं सुरेन्द्रकुलिशत्वमुपैति नित्यम्।।8