योगेश्वराय हरये भुवनेश्वराय
रासेश्वराय महसे च रसेश्वराय।
कृष्णाय भावपुरजातसतृष्णकाय
नित्यन्नमोsस्तु वरदाय परात्पराय।।1।।
कृष्णोsसि देव! जगतः शुभकारकस्त्वं
ह्यन्धन्तमांसि विनिहंसि विभासनाय ।
रक्षःकुलानि पुनरत्र विवर्धितानि
प्रोन्मूल्य मूलमिह लोकहितं विरक्ष।।2।।
त्रायस्व देव! भुवनं खलपूतनायाः
पापेभ्य आमिषनुतेभ्य अहो समन्तात्।
एकैव सा कलियुगे बहुरूपमाप्त्वा
मृत्युंगताsपि चरतीह सुखं विहन्तुम्।।3।।
आयाहि कृष्ण! धरणौ पुनरेकवारं
गोवर्द्धनाय शिशुपालविनाशनाय।
कंसाकुलस्य सुजनस्य सुखस्य नित्यं
चक्रञ्च चालय विभो! नवभारताय।।4।।
लोकेsप्यलोकरसरासविलासमूर्तिं
राधां विवाधरहितां कुरु भूतलेsस्मिन्।
वेणुं निनादय पुना रसवर्षणाय
प्रायेषु रूक्षहृदयेष्वधुनातनेषु।।5।।
अद्यापि पश्य बहुशः सकले समाजे
सन्तीह हन्त किल माहिषमन्दमेधा:।
गङ्गाजलेष्वविरलं मलपातनेन
नायाति सद्य इह भो किमु पूतगन्धि:।।6।।
अद्यापि भोगपरिरक्षितयोगपूर्षु
प्रायो विलासविनता वनिता विलोक्य।
ते ते सकोपनयने कथमत्र शान्ते
ब्रूहि त्वमद्य जगदीश! विचार्य किञ्चित्।।7।।
गोपालकोsसि भुवनेश! भृशन्नु याचे
त्वामद्य लोकमुपयाहि विधेहि सत्यम्।
कोsसौ गवां सलगुड: परिरक्षको वा
कोsसौ च दण्डबलमत्तविनाशमार्गी।।8।।
लोके मृताsपि तनयान् पथिषु प्रशीर्णा
जीर्णा न कर्षति कथं किल विश्वमाता।
गोरक्षका: कलिकलङ्कजुषस्समस्ताः
प्रायो मदान्धनिहता विचरन्ति कृष्ण।।9।।
नो पालयन्ति निजपौरुषनिर्मिते ये
गेहेषु गाः परिचारकभाववृत्त्या।
गोपाल! पश्य कलिकालपरीतरीतिं
गोरक्षकेषु भुवनेsग्रपताकिनस्ते।।10।।
दृष्ट्वाद्य देव! भुवि नाम वृथा ह्यनाम्न
श्चेतो न चञ्चलयति प्रसभं कथन्ते।
आख्यातपूर्वमिह कारणमेव चेत्ते
हित्वोपसर्गकथनन्नु निपातवृत्तिः।।11।।
शङ्के प्रभो! कलिमले तव चित्तवृत्ति-
रारक्षणाङ्कुशभयात्सभयेव जाता।
नित्यम्भ्रमन्ति ह्यभयाश्च विचारमूढाः
कारा गृहं कलियुगेsस्ति सदाशयानाम्।।12।।
मौनं भजन्ति वनवायसवर्णपर्णा
श्शाखासु घूकभयभारनतासु तासु।
व्यर्थञ्च नाम तव ‘माधव’ एव दत्तं
हित्वा वृणीष्व नवनाम कमप्यमेयम्।।13।।
त्वञ्चक्रपाणिरसि कृष्ण! गतं क्व चक्रं?
वक्रं विधाय वदनं सदने निषण्णः?
चिन्तातुरोsसि चतुर! प्रियभक्तिभीरो
वीरो विहाय समरं न वृणोति शय्याम्।।14।।
आरक्षितोsसि जगदीश्वर! चेदिह त्वम्
विज्ञापयस्व कुलजातिविधानधर्मान्।
भक्ता विभक्तिकुशलाः परमं नयज्ञा
श्चेष्यन्त्यतीव हितहेतुकरं स्वदेवम्।।15।।
जात्यैव सर्वहितसाधनमद्य साध्यम्
सामान्यमान्यसुजनैरुत सर्वकारैः।
देवो विवर्णकुलगोत्रयुतो न वायं
ज्ञात्वा क्रमेण भविता भुवि पूज्यता ते।।16।।
लीलाधरोsसि नटनागर! ते सलीलं
कार्यं विचार्यमधुना ह्पराधश्रेण्याम्।
नारीं प्रपश्यति नरो निजशत्रुरूपां
नारी तथैव च नरं मनुते स्वशत्रुम्।।17।।
सम्पूरणीति मनुते न नरस्य नारी
ह्यात्मानमत्र विकलेव सदाssचरन्ती।
मन्दस्मितावपि मुदा छलछद्मवेषा
क्लेशाविलापि निजभाववचो गृणन्ती।।18।।
धात्रा व्यधायि भुवने गुणशीलरम्या
कम्या च सौम्यवपुषा वचसाsपि मृद्वी।
स्वैरप्रभावपतिताहतबुद्धिवेगा
कालिल्यमेति कलिकालवशानुगा सा।।19।।
गोपीश्वरोsसि भगवँस्तव देहलीला
श्लीलाsपि सम्प्रति न ते गुणकीर्तनाय।
भक्ता विभिन्नमतयो युगरागरीत्या
चिन्वन्त्यहो विषमतर्कमरौ स्वदेवान्।।20।।
माध्वीवने मधुरिपो! कटुनिम्बकानां साम्राज्यमस्ति बकवायसपालितानाम्।
स्वैरस्वरोsद्य तव वेणुगतो विभीतः
वैरन्तनोति भविता किमहं न जाने।।21।।
लोकच्युतोsसि जगदीश! तवाच्युतेति
प्रेयं प्रसिद्धमतिमानदमस्ति नाम।
त्वं रक्ष मानमिह भक्तजनात्मसंस्थं
लोकोत्तराप्तगुणशीलपराक्रमेण।।22।।
यच्छ प्रभो! शुचिमतिं भुवि दुर्मतिभ्य
स्तेभ्यो विषण्णमुखदूषणभूषणेभ्यः।
सन्तास्तु सन्ति निजयागबलैस्सपक्षे
दुष्टान् विमर्दय जनार्दन! सत्वरन्त्वम्।।23।।
कालस्सदैव भवति प्रबलो न लोको
नाङ्गीकरोति सहसेति कथं मनो मे।
देवो भवेदुत भवेद्भुवने नरो वा
कालप्रभावमहिताः भुवि सन्ति सर्वे।।24।।
हे लोकपाल! छलिता वयमत्र विद्मः
रक्षाकरैः प्रियवरैर्युगराजनीतौ।
कस्यापि कोsपि भवतीह निजो न लोके
ज्ञात्वेदमत्र मनसाsमनसा भजामः।।25।।
श्रीकृष्णस्तवस्तबकं यः पठेद्युगसम्मतम्।
तस्य कृष्णेsधिकारस्स्यादहोरात्रमभेदतः।।26।।