तरुणा विपिनं विपिनेन तरुस्
तरुणा विपिनेन विभाति धरा।
सरिता सलिलं सलिलेन सरित्
सरिता सलिलेन विभाति नग:।।
चुलुकेन कुवं च कुवैश्चुलुकश्
चुलुकेन कुवेन विभाति सर:।
मसिना कलम: कलमेन मसि:
मसिना कलमेन विभाति कवि:।।
वशया पुरुष: पुरुषेण वशा
वशया पुरुषेण विभाति गृहम्।
पथिकेन पथश्च पथा पथिक:
पथिकेन पथा च विभाति पदम्।।
मधुपेन सुमं च सुमैर्मधुपो
मधुपेन सुमेन विभाति मधु।
पयसा खलु गौश्च गवा च पय:
पयसा च गवा च विभाति वपुः।।