खगोलवृन्दावनकेलिकारी
सलोकमायाच्छलभेदहारी।
समस्तवेदोक्तविचारखारी
जयेन्मुरारिर्जयताद्विहारी।।
सुगन्धिपुष्पौघसमर्चया च
नवस्तवैर्मन्त्रगिरा मया च ।
जगज्जनानां नयनाभिराशिः
जयेन्मुरारिर्जयताद्विहारी।।
वदन्ति वै वेदविदोप्यभीक्ष्णं
त्वदीयगाथां नवनीतगीतम्।
नमस्यपीताम्बरनाट्यकारी
जयेन्मुरारिर्जयताद्विहारी।।
अशेषशेषेषु मुदा शयानो
बिभर्ति सृष्टिं सततं कृपालो।
हरिप्रियाया हृदयस्य वासी
जयेन्मुरारिर्जयताद्विहारी।।
वृषा च दिक्पालकलेशदेवाः
सुभृङ्गदृष्ट्या तव ते नटन्ति ।
स्वभक्तदेशे नटवेशगामी
जयेन्मुरारिर्जयताद्विहारी।।
Facebook Notice for EU!
You need to login to view and post FB Comments!