शास्त्रार्थ: अर्थशास्त्रं च
भक्तिः ज्ञानं च — (शिवेतरक्षतये)
पीत्वा रसं भागवतस्य किञ्चित्
पीत्वा च रामायणकाव्यसारम् |
विचार्य किञ्चिद्विलिखामि यत्नै
“रा”धावतामस्ति समस्तसौख्यम् ||
आधारवन्तो हि भवन्ति सन्त:
केचिन्निराधार-वचो वदन्ति |
विहाय शास्त्राण्यधुनार्थमार्गै
“रा”धावतामस्ति फलं श्रमस्य ||
मुनित्रये व्याकरणस्य कर्त्ता
दाक्षीसुत: पाणिनिनामकोऽभूत् |
मन्ये स शास्त्रेऽकथयत्स्वसूत्रै
“रा”धावतामस्ति विशेषलब्धि: ||
अपार – साहित्य – समुद्र ~तीरे
स्थितोऽहमेक: कविमान-काम:|
उक्तं मया वाक्यमिदं स्वकाव्यै
“रा”धावतामत्र सुखं विशेषम् ||
हे पाठका भागवतार्थविज्ञा
“गुरुप्रसादाद् +धृतनैकविद्या:!”
समे भवन्तोऽपि वदन्तु घोषै
“रा”धावतामाकृतिरस्ति सिद्धा ||