केचित् कल्मषकोषकर्षणकलाकम्राः कुलीनाः क्वचित्
कार्पण्येन कुलं कलौ कलयतां कृष्णन्ति कर्मालयम्।
कौपीनेषु कुशाग्रबुद्धिकमनाः कृष्ट्वा कृतान्तं क्रमात्
काश्यां कर्मकलापलोपत इमे कैवल्यलोकङ्गताः।। १
मौनं मनो मम मुदा महतां विनम्रं
मग्नं मुमूर्षति मनाङ्मनुते मतं नो।
मात्सर्यमान्द्यमुकुलायितमानवानां
मानापमानबहुमानमयं नृमान्यम्।। २
द्विजिह्वा मनुष्याः करोनासमानाः
शरीरे स्वतो यान्ति संस्पर्शमार्गैः।
ततो$न्तःप्रविष्टा द्रुतं प्राणवायुं
हरन्तीव नो पुप्पुसं दूषयन्तः?।। ३