हरिरिह मन्दसुगन्धिसमीरे
क्रीडति कालिन्दीतीरे।।
वितरति चोरितनवनवनीतं ,
गायति ससखि मनोहरगीतं ,
विलसति नीलकमलमिव नीरे।। क्रीडति•••
रचयति रुचिरं नवलोद्यानं ,
सिकतोच्चयतो भवनवितानं,
रथयति गोपं बद्ध्वा चीरे। । क्रीडति•••
भवति कदाचित् कुञ्जविलीनः,
वेणुं वादयते तल्लीनः,
अनुवदतीह वदति शिखिकीरे।। क्रीडति•••
धावति विदधच्चैलवितानम्,
उड्डाययते पर्णविमानं,
वीरत्वं दर्शयते वीरे।। क्रीडति•••
क्वचनारोहति झटिति कदम्बं
कुर्वन् सखिपृष्ठाद्यवलम्बं
नृत्यति निर्मितनवलकुटीरे।। क्रीडति•••
चित्रयतेऽधिधरं सुविचित्रं
भ्रमति च यानं कृत्वा मित्रं
चञ्चति यमुनाकवनेऽधीरे।। क्रीडति•••
मुग्धाः चातकवकशिखिगावः
सुखितो नरनिकरो मृदुभावः।
गर्जति नवजलदे गम्भीरे। । क्रीडति•••
नानाप्राण्यनुकरणविधानं
तनुते विविधविनोदनिधानं
रसिको विनिमज्जति रसमीरे।।क्रीडति••