१
मृद्गन्धपूरम्
प्रथमपयोदेन
मनो नृत्यति
२
प्रस्तरवक्षात्
विनिर्गतः पादपो
माधवायते।
३
गिरिगह्वरे
शास्त्रं निक्षिप्यागतः
पण्डितश्शेते।
४
प्रजारञ्जनम्
भव्ये राजभवने
मरणासन्नम्।
५
पुरस्क्रियते
पल्लवग्राहिज्ञानम्
रोदिति मूलम्।
६
वन्ध्या प्रार्थना
वने सु्प्तमीश्वरम्
आकारयति।
७
मेघदूतो गतः
प्रेमपत्रमादाय
नायातो हन्त !
८
बाभातिविद्युद्
इन्द्रधनुर्भीतेयम्
मेघालिङ्गने।
९
काचिद् विदग्धा
वर्षायां प्रतीक्षते
प्रवासिनं किम् ।
१०
कोSयं पथिकः
इतस्ततोSन्विषति
स्वस्य ह्रदयम्।
११
महानगरेषु
गृहं वस्तुभ्यःपूर्णम्
रिक्तञ्च मनः।
१२
रामगिरितः
अश्रुभिरभिषिक्तः
सन्देशो लब्धः।
१३
आर्द्रो भास्करः
दामिनीम् आलिङ्गति
शुष्को भवितुम्।