यदीयकृपयाऽखिलं जगदिदं सदा नीरसं
विभाति सरसं रसान् वहति या च ताञ्श्चोतति।
यदीयगुणवाटिका बहुसुमा सिता शाटिका
सुगन्धयति मानसं हरति सा जयेच्छारदा॥१
युनक्ति सुपदं पदं परिनिषेव्य यस्याः कविः
सदैव विदधाति कौ विविधविच्छितिं तेन सः।
जने महति यद्वशाद् भवति कोऽपि भव्यासनः
प्रफुल्लवरटासना जयतु सा चिरं शारदा॥२
स्वहस्तगतवल्लकीं सुमधुरं क्वणन्ती स्वरान्
तनोति विदितानपि स्वकलया विधत्ते नवान्।
विधाय लयमूर्च्छनैस्स्वरचयान् पुराणान् नवान्
करोति जरसो जनानपि नवान् जयेच्छारदा॥३
व्यथा विषमिव स्थिताऽपि हृदये कवीनां मुखाद्
बहिःकृतपदा भवेत् तदनु सा सुधा जायते।
यदीयकृपया प्रभुर्भवति वाग्विताने जडो
मदन्तरवभासिनी भवतु काऽपि सा शारदा॥४
सुरम्यमुखमण्डलोल्लसितभृङ्गभव्यस्वन-
प्रसन्नहृदया सदा भवति भव्यविद्यालया।
जपेऽस्ति निरताऽनिशं स्फटिकमालयाऽन्तर्लया
हरेन्निखिलदूषणं प्रतिपलं लसेच्छारदा॥५