गीति:
रमणीये विपिने सानन्दम्,
नर्तनरतो मयूर:।
पिच्छमयं प्रसार्य समोदम्,
केकं कुरुते सुभग:।।
मेघं वीक्ष्य सघननर्तनम्,
भवति मन्दं मन्दम्।
जलदवारिकणसिक्तो भूत्वा,
आह्वयते प्रियमित्रम्।।
श्रावणमासं वीक्ष्य मयूर:,
भवति प्रकामं मुदित:।
आमासं खलु गगने कृष्ण:,
सजल: स्यादेव जलद:।।
गर्जनशब्दै: साकं केकम्,
कुरुते कियन्मयूर:।
चपलाचपलरुचिं बहु रुचिराम्,
दृष्ट्वा विस्मितनयन:।।
क्वचित्तरुतले क्वचिद्भूतले,
क्वचित्तरुशाखारूढ:।
वृक्षाद्वृक्षं क्वचित्स: धावति,
कर्षति मनो मयूर:।।
अहिकुलमेति न तस्य पार्श्वे,
दृष्ट्वा गच्छति दूरे।
इतस्तत: खलु भ्रमति मयूरी,
स्नेहेन तस्य समीपे।।
राष्ट्रगुणं प्रख्याति मयूर:,
भुजगरिपुं हि भुंक्ते।
शस्यश्यामलां भारतभूमिम्,
एष: बहु भूषयते।।