भवति रोदनं कथं सुपुत्रक! त्यज रोदनं हि शीघ्रं
पितामहस्ते नीत्वा त्वामपि हट्टं यास्यति शीघ्रम्।।
यत् त्वं वाञ्छसि पितामहस्ते दास्यति तुभ्यं शीघ्रं
शीघ्रं शीघ्रं स्वच्छं वसनं उपानहौ धर शीघ्रम्।।
यावत् पतति जलं तव नेत्रात् यास्यसि कथं हि तावत्
पीतामहो$पि न नेष्यति तावत् न विहसिष्यसि यावत्।।
हट्टं यास्यसि चेन्न भविष्यति कथं मोदकं हस्ते
वाञ्छसि किन्नहि मधुरमोदकं रमणीयं वा हस्ते।।
श्रुत्वा मधुरं वचो जनन्या नेत्रमार्जनं कृत्वा।
बभूव सज्जो बालो वस्त्रं पादरक्षकं धृत्वा।।

जनवरी 2022
265 Views
बालतोषणम्
भवति रोदनं कथं सुपुत्रक! त्यज रोदनं हि शीघ्रं पितामहस्ते नीत्वा त्वामपि हट्टं यास्यति शीघ्रम्।। यत् त्वं वाञ्छसि पितामहस्ते दास्यति तुभ्यं शीघ्रं शीघ्रं शीघ्रं स्वच्छं वसनं उपानहौ धर शीघ्रम्।। यावत् पतति जलं तव नेत्रात् यास्यसि कथं हि तावत् पीतामहो$पि न नेष्यति तावत् न विहसिष्यसि यावत्।। हट्टं यास्यसि चेन्न भविष्यति कथं मोदकं हस्ते वाञ्छसि किन्नहि मधुरमोदकं रमणीयं... Read More





