१.
नेत्रयोरागता सा शरच्चन्द्रिका
चण्डतापाहतं जीवितं जीवनम्।
नेत्रवाचा तया मन्त्रितं यन्मया
तेन शुष्कं मन:काननं पुष्पितम्।।
प्रीतिशैलाच्च्युता सा$स्ति धारा नवा
दिव्यकल्लोलिनी स्वच्छभावोज्ज्वला।
तत्तरंगोच्छलत् पद्मिनीनर्तनं
वीक्ष्य शुष्कं……….।।
किं करोतीह सा नैव जानाम्यहं
वक्रिमाक्षामृताम्भोधिमग्नो$स्म्यहम्।
दग्धचित्ते तुषाराम्बुदस्यागमं
वीक्ष्य जाड्याश्रितं मे मन: सस्मितम्।।
तत्स्वरूपस्य सन्दर्शनं पुण्यदं
जीवनं संसृतेस्तद् भ्रुवो: कम्पनम्।
कुन्ददन्तच्छटा मानसोल्लासनं
जीवने$स्मिन् हि लब्धं पुनर्जीवनम्।।
***************
२.
हे शिव! भविष्यति किमिह प्रभातम्
शशिकरशीकरताभीता किं नलिनी प्राप्स्यति हासम्।
हे शिव……….।।
जलधिसुतावाहनकुलहासै: काननमिह परिपूर्णं
शुकपिकचातकवंशभवानां निद्रां त्यजति न भाग्यम्।
हे शिव………।
सरति सरीसृपवंशविनीता नटिनीवात्र चलन्ती
झिल्लीगीतिरवैर्वसुधेयं निराश्रयेव रुदन्ती।
हे शिव…..।
उदयाचलशिखराधरयुगले शोणितविन्दुविलेपं
कदा भविष्यति केन भविष्यति भानुविभाधरहासम्।
हे शिव ………।।