एहि पुत्र! आपणं चलाव:।
गत्वा च फलानि क्रीणाव:।।
गृहाण गृहाद् त्वमेकं स्यूतम्।
सुन्दरञ्च विशालं प्रभूतम्।।
क्रीत्वा शाकं फलञ्च लाव:
एहि पुत्र! आपणं चलाव:।।
किमर्थं पित:! स्यूतं गृह्णानि।
तत्र सन्ति कल्पकस्यूतानि।।
ननु विना स्यूतमेव चलाव:
एहि पुत्र! आपणं चलाव:।।
कल्पकस्यूतं पुत्र वर्जितम्।
पर्यावरणाय तन्नोचितम्।।
स्यूतं हि नीत्वैव गच्छाव:
एहि पुत्र! आपणं चलाव:।।
प्लास्टिकं सर्वथा वर्ज्यमस्ति।
पर्यावरणञ्च सुरक्ष्यमस्ति।।
एतदेव सर्वत्र वदाव:
एहि पुत्र! आपणं चलाव:।।