हे पितामह! क्वाधुना मम रक्षको वा रक्षिका।
क्वाधुना शेते शिवो वा क्वास्ति चण्डी कालिका।।
राक्षसानां मण्डली भ्रमतीह नित्यं निर्भयं
रोदितीह गृहे वने वा सज्जनानां जीवनम्।
देवभूमि: दानवानां नग्ननर्तनमन्दिरं
नारदो$पि करोति दुर्जनसेवनेन हि मंगलम्।।
यस्य हस्ते यष्टिका महिषी तदीयैवाधुना
यो निहन्ति जनान् सदा भवतीह रक्ष्य: सो$धुना।
किं करोत्यधुना शिवो वा किं करोति हि कालिका
हे पितामह! ……………।।
मोदके निरतो गणेशो भाषणे सुरसैनिका:
भव्यभूषणतेजसा निहता: स्वलोके निर्जरा:।
कामिनीकलकूजने निरता: सुरा जनरक्षिण:
व्याकुला तृषिता भ्रमन्ति हि साधुमानसपक्षिण:।
क्वाधुना तव दुष्टमर्दनकारको वा कारिका
हे पितामह!………..।।
पौत्र! रे वदसीह यत् भवतीह तत् नहि संशय:
रक्षको$थ च रक्षिकापि हि पश्यतीति न संशय:।
चेतसीह तवैव जगतस्साधको$थ च साधिका
त्वं भविष्यसि रक्षको भगिनी तवैव हि रक्षिका।।