राम! पुनरायाहि!
सत्य-संयम-शौर्य-सित-सुखधाम! पुनरायाहि!
रावणीसन्ततिर्भूमौ वर्द्धते हा,
वेदनाभिर्नृलोकोsयं स्पर्द्धते हा,
सौरभं दूरंगतं भो मानवानां
दानवीदुर्गन्धिरिह परिवर्द्धते हा!
प्रस्थितेयं ताडका स्वशयेsस्थि नीत्वा
प्रेषयितुमेषामयेsसुरधाम पुनरायाहि!
वञ्चयति हैमो मृगो मारीचनामा,
दिव्यवेषधरोsपि कश्चिन्नीचकामा,
खरोsयं प्रखरायते सह दूषणेन
मानसे कश्चिच्चरति वीराधनामा!
वनेsस्मिन् विजने बिभेति च रहसि सीता
सम्प्रदातुं शान्तिमस्यै श्याम! पुनरायाहि!
प्रतिपलं “सुपनखा” रचयति जिह्ममतुलम्,
नीचगेव विमर्दयति सा भावममलम्,
नृत्वमपि संलज्जते त्रपया नु यत्र
निस्त्रपा परिहाय रमते तत्र विमलम्!
लक्ष्मणं प्रेषय पुनः घोणां विभेत्तुं
सत्यशुचिविश्राम! हे निष्काम! पुनरायाहि!
निर्बलीकृत्यैव बालीं त्वं निहतवान्,
प्रियसखं सुग्रीवमपि सबलञ्च कृतवान्,
नूनमेव जगद्रहस्यं तेsद्य पश्येत्
दुन्दुभीमेकेषुणा त्वं कथं हतवान्!
कलिलमपि लोकस्य सलिलैरपाकर्त्तुं
पुण्यसन्देशेन सह ह्यभिराम! पुनरायाहि!
सम्भवं कृत्वा त्वमेवासम्भवम्भोः,
तारयित्वा नामशक्त्या दृषदमपि भोः,
पापपुरमपि दूरतो विध्वंस्य शश्वत्
सत्त्वपीठे स्थाप्य नवनवराजमपि भोः!
धर्मरथमारुह्य धृत्वा विनयबाणान्
पापनाशायैव पूर्णविराम! पुनरायाहि!