राजमतमहापुराणे नलनीलवार्त्ता(६)१.१७.९.१…
वीचेरिन्द्रियमिन्द्रियाद्वीचिर्वा संदेग्धि ।
यथाक्रीडमीप्सुः स्वयं तथा क्रीडितुं दोग्धि ।।१.१७.९.१।।
चञ्चुक्रीडादीक्षितौ खगौ तिष्ठतो ह्यत्र ।
जिगमिषयेप्सितदिशमिमौ तथोड्डयेते तत्र ।।१.१७.९.२।।
डयने डयने दिक्सृतिः कालसृतिश्च यथैव ।
समागमादुभयोर्भृतिः सर्गमयी तु तथैव ।।१.१७.९.३।।
यथा कणो ब्रह्माण्डं हि तथा ।
यथा क्षणः कल्पान्तो हि तथा ।।१।।
कणशो ब्रह्माण्डं समण्डलम् ।
ताराग्रहकेतुजसुकुण्डलम् ।।२।।
तत्र वर्ततेऽयं हितसर्गः ।
भूतमयः सुकलः संसर्गः ।।३।।
क्षणशः कल्पनया हि सुकल्पः ।
युगमन्वन्तरतल्पजकल्पः ।।४।।
क्रमात्क्रमणतः परिक्रमणतः ।
कालः परिमीयते भ्रमणतः ।।५।।
यथालातचक्रजं नु वृत्तम् ।
तथा ग्रहादिभ्रमणजनृत्तम् ।।६।।
दिनमासाब्दयुगादिसुतल्पः ।
मन्वन्तरकल्पजः प्रकल्पः ।।७।।
सूर्यपरिक्रमणमितः कल्पः ।
ताराभेदात्पृथग्विकल्पः ।।८।।
ततो बृहत्तारमितः कल्पः ।
बृहत्तरः नक्षत्रजकल्पः ।।९।।
मात्रभूतसङ्ख्याथवा कालमितिश्च चकास्ति ।
स्वयं दिदृक्षासङ्गता प्रकृतिनृत्यलयजास्ति ।।१.१७.१०.१।।
लहरी स्वयं तरङ्गिता यथा जल्पिता नील ।
कल्पितेव तल्पस्थिता प्रकृतिस्तथा निनील ।।१.१७.१०.२।।
नवाः कल्पनया सर्गाः प्रतिसर्गास्तु तथैव ।
वंशा मन्वन्तरचरा ईशानुकथाश्चैव ।।१.१७.१०.३।।
आश्चर्येण चकित इव नीलः ।
नलमुवाच ललितालकनीलः ।।१।।
कल्पनया कल्पनया एते ।
तल्पनया जल्पनया एते ।।२।।
इयं कथं लहरी प्रपञ्चते ।
कथं पञ्चयति कथं मञ्चते ।।३।।
कथं लहर्या पुरति हि सर्गः ।
कथं पुरति पुरतः प्रतिसर्गः ।।४।।
मनवः कथं कथं वान्तरणम् ।
कथं चतुर्दशधा हि वितरणम् ।।५।।
प्रचरन्ति कथं वंशाः के के ।
अवतंसा हि सदंशाः के के ।।६।।
इतिहासं नु विना कथं प्रथाः ।
कथमीशाः कथमीशानुकथाः ।।७।।
श्रुत्वा नीलवचनमिव सदयम् ।
कथङ्कारसंवलितं सभयम् ।।८।।
उच्छशाल निजगाद सनादम् ।
नलो ननाल सनालसुनादम् ।।९।।