अये मातर्विश्वं सृजसि समये पासि नितरां
तत: संहारं त्वं कुरुष इति सन्तोऽजडधिय:।
वदन्त्येवं सत्यं मम मनसि पृच्छा परमियं
कुमारं भस्माङ्गं वद गजमुखं कर्षसि कुत:? १
गृहे वन्द्या देवी पतिसुतसुखं वाञ्छति सदा
तदा गेहस्थानां शुभमपि हृदा चिन्तयति या
अहो सोढ्वा सोढ्वा विपदमिह सामोदमयते
नुमस्तां देवीं त्वां गिरिवरसुतां कल्पलतिकाम् २
पिता पातीत्येवं निगदति वृथा कश्चिदपि ना
परं पासि प्रायस्त्वमिह निजसन्तानमनिशम्।
न साम्यं ते लोके कथमपि मया वीक्षितमये!
क्वचित् त्रैलोक्येऽस्मिन् बहुजननमार्गैर्विचरता। ३
अयं स्वार्थी लोक : कथयति कथां शौर्यललितां
लपन् लीलां लीनो लुलितलतिकां लालयति नो।
सुमं लब्धुं मात:! सरति तव पूजार्थममभित:
भजन् भीतो भक्तो भवति भुवने भावभरित:। ४
धनं मानं लब्ध्वा स्मरति महिमानं न मनुज:
कुबेरं देवेन्द्रं मनुत इव चात्मानमधुना।
धुनोत्यापत्काले निजतनुमयं रक्षसि यदा
स्वभावो मातस्ते द्रवति जलवत्प्राणिषु तदा।। ५
सदानीरा भूत्वा निखिलपुरुषान् सिञ्चति चिरात्
परं धत्ते दु:खं गृहिसुगृहिणी केवलमलम्।
नरो नारीं त्यक्त्वा गणयति निजं कृत्यमतुलं
विदून: सन् मात:! तव शरणमायाति विकल:।। ६
जगत्यां नारीणामतुलमवदानं बहुविधं
विजानन् ब्रूतेऽयं चतुरपुरुषो नैव मधुरम्।
द्विजिह्वो लाभार्थं नमति जगति प्रीतिवचसा
हृदार्चां ते हित्वाऽकलयति धनं धीवर इव।। ७
मृडान्येतां यात्रां विधिविरचितां मानवचितां
विजानेऽहं यात्री प्रतिपदमये कर्मकुशल:।
न वाञ्छा संसारे जननि! मम चित्ते वस परं
विना त्वां शून्यं हा जगदिदमहो साधुवचनम्।। ८
स्तवाष्टकमिदं सृष्टमरविन्देन महात्मना:।
य: पठिष्यति रागेण स विरक्तो भविष्यति।। ९