उटजे मुग्धं सौख्यं वसनं
स्वप्नेपि नहि भव्यं भवनं
विपदि सदैवोन्मुक्तं हसनं- मदभिज्ञानं -मदभिज्ञानम् ।
पदयोर्नवलं व्रणमादाय
हृदये ज्वलनं ततो निधाय
जीवनपथे मुदा सञ्चरणं-मदभिज्ञानं-मदभिज्ञानम् ।
जटिले प्रश्नानामावरणे
पीडायागदीक्षिते चरणे
स्वस्य स्वयं सङ्कुरुते हवनं-मदभिज्ञानं-मदभिज्ञानम् ।
शुष्काधरयोरश्रुबिन्दुभिः
क्वचिन्माधवे स्वेदवारिभिः
कुरुते यश्चात्मनस्तर्पणं-मदभिज्ञानं-मदभिज्ञानम् ।
विजने स्वप्नानामाकलने
यथा वेदनाकुलसंचयने
मनोमृगस्य व्याकुलमटनं-मदभिज्ञानं-मदभिज्ञानम् ।
कवितामूले कवेर्व्यथायां
कुसुमेन पाषाणशिलायां
नवलं क्रौञ्चकथोपसर्जनं-मदभिज्ञानं-मदभिज्ञानम् ।