अयि कालिदास! महाकवे! रघुवंशकीर्तननिर्झरी
श्रीरामगीतिधरा मनोज्ञा भव्यभावविभाकरी
हरते प्रिया मृदु तेऽद्भुता रचना मनस्तु विभावरी
हरमर्चितुं सक्ता मनोनिलयं विशन्ती मनोधरी।। १
न विलोक्यते कण्वाश्रमो न शकुन्तला न प्रियंवदा
नहि कोपसुलभो लक्ष्यते न च वानुसूया सौख्यदा।
पुरुवंशजो न च दृश्यते न च मालिनी मृदुरसभरा
संलक्ष्यते परमेवमेवं ते कृतिर्नवरसधरा।।१
यक्षस्त्वदीयो लक्ष्यते निजवंशवल्लरि- वर्द्धक:
तव रामगिर्याश्रममना भुवि मेघदूतविभावक:।
शिप्रा नदी त्वां प्रेक्षमाणा दूयते जललोचना
नवयक्षिणी अलकापुरीं संसेवतेऽश्रुविलोचना २।।
ऋतुवर्णनं विहितं त्वया पवते मनो न: पावनं
रतिदं कवीन्द्रैर्मन्यते कविकामिनीकचमण्डनम्।
कविताविलास! विहारवैभव! सत्कवे!कविताकर! !
मध्यप्रदेशमनोहर! प्रिय! नव्यसर्जनभास्कर!। ३
श्रीश्रीनिवासरथो महाकवि: कालिदासमहोत्सवं
सञ्चाल्य ते रचनारसं प्रासारयत् सोमासवम्।
भुवि जयतु सैष यशोवपुस्तव नामकीर्त्या सुखकरी
कविसर्जक! ध्रुवमस्ति ते नवकल्पना कविपदकरी।। ४
अभिराजयुगकवितकरा अभिराजकविकविताधरा:!
मुदिता वयं कविकल्पनाभव्यांगणे रचनातुरा:।
नवरत्नवर्य! कवित्वकौशलपुंस्कोकिल! गीर्धर!
युगबोधवैभवमाल्यगल! वस मानसे मे धीवर! ।।५