सखि ! वारिदाःसमागता घनाघनाः
सुदूरमस्ति मत्प्रियोSधुना ।
मेघगर्जनं शृणोति
कम्पितं मनो बिभेति
भास्करे तमस्तनोति- २
चला दामिनी चमत्करोति भीषणा
गृहे निरावलम्बनाधुना ।
मेघमालया प्रहृष्य
वारिधारया प्रसिच्य
वप्रलीलया विशिष्य-२
पुरःप्राङ्गणे अमानिशा दिनेधुना
भयाकुला गृहे मदाङ्गना ।
आर्द्रता बहिस्तनोति
चान्तरेSनलं मिनोति
मानसं चलं करोति-२
अहो वाति वायुरार्द्रितस्तथाधुना
प्रियाभिलिङ्गनोद्यतं मनः ।
कर्मसु दिनं प्रयाति
सान्ध्यमाकुलं जहाति
वारिवर्षणं कृणाति-२
परं वैरिणीव लाति निशा वेदनां
क्षणे- क्षणे विडम्बनाधुना ।
यौवनं च धिक्करोति
काम इन्द्रियं धुनोति
देहकामनां तनोति-२
अहो रोमरोमसु स्मरप्रचोदना
करोतु दैव सङ्गमार्चना ।
मेघदूत ! कामरूप !
प्रेमिणां प्रियस्वरूप
आनय सखामनूप !-२
तदा सङ्गमे प्रियेण ते समर्चना
प्रसीद मयि परं सखेSधुना ।







