यावज्जीवनमनिशं मनुजो
रटति धनं हा धनम्,
परमन्ते लिख्यते सूच्यते
केवलमिह नि-धनम्,,,,,कबीरा इत्थमुवाच सखे !
कोषागारे कोषविशेषः
सदने कुलसकलम्
यद्यद्यथायथं तल्लभते
अरे कृतस्य फलम् ,,,,,,,कबीरा इत्थमुवाच सखे !
निस्सारे रतिरन्तर्बहितो
निष्ठ्यूतं चयनम्
मानसमजिरं मोहे मुग्धं
सुस्खलितं गमनम्,,,,,,,,कबीरा इत्थमुवाच सखे !
वर्षति कुतो कम्बलं हन्त
आर्द्रं कुतो जलम्
मीनःपिपासितःसरितीह
मनो मम विकलम्,,,,,,,कबीरा इत्थमुवाच सखे !
नावि निमग्ना नदी चंचला
तटं पंकपलितम्
चित्तं जले चलद् रमते किं
हृदि पद्मं ललितम् ,,,,,कबीरा इत्थमुवाच सखे !
नैव जन्म नो मृत्युर्नियतः
लवे लयो यस्य
बिन्दोर्भ्रमः समुद्रसन्निभः
जडतेयं तस्य,,,,,,कबीरा इत्थमुवाच सखे !