लसेच्चिरं पदं स्थिरं पदाभिलाषिमानिनो
विचिन्त्य कालयापनं प्रकुर्वते यदा-तदा।
जहन्निकर्मकान्पदोन्मदान्निरीक्ष्य कामये
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
जगज्जनस्स जङ्गमीति दुर्धिया पदे-पदे
सुसज्जनान्प्रपीड्य मोमुदीत्यसौ क्षणे-क्षणे।
सुनीतिमार्गवित्तमोऽपि शून्यनीतिजीवने
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
अधीत्य सर्वशास्त्रतत्त्वसारमर्मपारकं
तथापि नीचकर्मता गता न या नरान्तका।
कथन्न भीतिकेह बाधते कुकर्मसागरे
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्चरे।।
मदीयकार्यगौरवास्पदं लभेत चिन्तनं
प्रकुर्वता स तुच्छमानसोऽन्यकार्यदूषणम्।
विभाति मत्सरेण भूयसापि सैष भूतले
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे ।।
धनार्जनं चिकीर्षतीति येन केन कर्मणा
अनुत्तमेन जीवने स लब्धभूरिमानकः।
समोपदेशनीतिवर्त्मनः प्रदाय विष्टपे
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
धनोच्चयेन सप्तसन्ततिस्तु यापयेच्चिरं
स्वजीवनं हि चिन्तनं करोति मन्दतार्किकः।
न दीनहीनमानसं स सेवते सुवैभवे
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
कलत्रपुत्रबान्धवास्समे तदात्मसङ्गिनः
धनोत्तमं हि बन्धितं यदीयपाणिमुष्टिके।
गते धने न शिष्यते धनोत्तमं सुरक्षितं
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
स्वकार्यसिद्धये परान्स सेवितुं विचेष्टते
मुहुर्मुहुर्विधीयते निकृष्टपादचुम्बनम्।
निजाभिमानकं विहाय वर्धते कथं विभो
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
कृतोपकारकं स मानवं दुनोति भूरिशः
कृपाबलाद् स यस्य राजते चलाचलेऽसुरः।
करोति कश्च! वन्दते कुनागरं कथं विभो
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
धनोच्चयेन मानवेऽत्र मानवत्वहीनता
विलोक्यते प्रतिक्षणं समाजजालविस्तरे।
मदान्धधूर्तधुर्वहो धुनोति धर्मधारिणं
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
परिश्रमं विधाय नाश्नुते फलं यथेप्सितं
यथा धनप्रभावकारणेन लभ्यतेऽञ्जसा।
प्रधानकर्मभूतले तु कर्म किं निलीयते?
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
अहर्निशं यथाक्रमं करोति कर्म कामदं
कथञ्चिदेव पूर्णतां मनोरथः प्रयात्यसौ।
परं स नेच्छतीति कस्यचिन्मनोरथव्रतं
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
विवाहकन्यकोत्सवे पिता यथाबलं स्वयं
प्रयच्छति स्वकं धनं समोपहारवस्तुकम्।
समाज एव धिक्करोति दत्तमानहस्तके
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
विचारवीक्षणं न कुर्वते विवाहबन्धने
सुवर्णभूमियानकान्यपेक्षितानि तद्दिने।
परस्परं विसङ्गतिस्तु दृश्यते गृहे-गृहे
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
पवित्रबन्धने न कर्मकाण्डमन्त्रगुञ्जनं
मुहूर्तसूचना न कापि मङ्गलं न वादनम्।
सुरालये समागता मदीयखिन्नमानसे
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
अकारि पण्डितेन धीमता विवाहमङ्गलं
न सत्करोति मानवो न दीयते धनोत्तमम्।
तिरस्करोति देवतुल्यपण्डितं कलौ प्रभो
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
पुराणधर्मशास्त्रवेदनीतिषु प्रचोदितं
नदीजलं सुरक्षतान्निजात्मजीवनाय तत्।
क्षिपन्ति गेहकल्मषं नदीष्वधीतशासने
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
नयन्ति नेतृवर्गनागरास्समाजमन्दिरं
विकासशालिनो भवन्ति देशगर्भमानुषाः।
वहन्ति नाद्य कर्मपालनं समर्ज्य ते पदं
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।
वृथा लपन्ति कष्टवारणं त्वदीयसाधनं
विधातुमत्र सक्षमा वयं च दीयतां मतम्।
विजित्य दर्शनं च दुर्लभं मृषोद्यजीवने
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
परस्परं च धर्मनामराजनीतिमादिनं
प्रसारयञ्जनेषु जायते विरोधभावना।
न देशबन्धुचिन्तनं स्वराजनीतिमादके
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
न देशवृद्धिमन्थनं न राष्ट्रनीतिवर्धनं
मतौ स्थितं कथं लभेत भूरिविस्तृतं धनम्।।
हता नृणां च भावना विलोक्य नेतृवञ्चकान्
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।