सीव्यति कालः
वयसश्चित्रपटम्
मन्दममन्दम्।
***********
शिक्ष्यतेSधुना
विहस्य मारणस्य
नवपद्धतिः।
***********
निशीथे कश्चित्
स्वेदसिक्तवदनः
मेघं शपते।
***********
चातकः व्रूते
प्रेम शुष्कपत्रेषु
चिरात् स्वनति।
***********
सर्पः लज्जते
दशनदक्षनरम्
नगरे वीक्ष्य।
***********
वेदान्तरीतिः
श्मशानवैराग्येण
कामायार्पिता।
***********
पर्यंकारूढः
तापसः वृकोदरः
धर्मं चरति।
***********
श्वेतकपोतः
शान्तिमन्त्रं पठति
रक्तप्राङ्गणे ।
***********
गवाक्षे निद्रा
पर्यङ्के च शरीरम्
मनः स्मृतिषु।
***********
मेघः लिखति
हरिताभपत्रेषु
मृद्गन्धगीतम्।
Facebook Notice for EU!
You need to login to view and post FB Comments!