मार्गस्तवैवागमनम् प्रतीक्षते
विवर्द्धते व्याकुलता नराणाम्
स्तब्धोऽधुनास्ते पवनप्रवाहो
म्लानं प्रयाता: कलिका: समस्ता:|
ईर्ष्याग्नितापं परिहाय सर्वं
छायां चलाम: सुखदां तरूणाम् |
आडम्बरं चापि विहाय सर्वं
ग्रामं चलाम: चल बन्धुवर्य!
त्वदीयचित्तं कलुषावृतं वै
प्रदूषितं व्याकुलमस्ति चैतत् |
स्वान्तर्मनोदर्शनमेव कृत्वा
ग्रामं चलाम: चल बन्धुवर्य!
विचिन्तय त्वं समयोऽधुनापि
शेषोऽस्ति, नो व्यर्थमिहास्थिरो भव|
आडम्बरं चापि विहाय सर्वं
ग्रामं चलाम: चल बन्धुवर्य!
न दृश्यते क्वापि ममत्वमत्र
न दृश्यते हा सहजस्वभाव:|
हत्वाऽपराधान् च चुरां प्रवंचनां
विना न यातं किमपीह सायम् ||
अस्मिन्न जाने प्रतिशोधवह्नौ
आशा: कतीनां ज्वलिता अभूवन् |
आडम्बरं चापि विहाय सर्वं
ग्रामं चलाम: चल बन्धुवर्य!
सम्बन्धविच्छेदनमद्य जातं
स्वार्थी च लोकोऽभवदेष सर्व:|
लक्ष्याय सिद्धोऽपि जन: प्रकामं
जातो विमूढोऽत्र कथं न जाने |
त्वं वंचित:स्वार्थिभिरत्र नित्यं
न वंचितस्तेऽस्तु भविष्यकाल:|
ग्रामं चलाम: चल बन्धुवर्य!