नवं च पुष्पं सुलता नवा सा
नवस्सुगन्धिर्नवचञ्चरीकः।
नवं च दृश्यं नवदं सदा नः
नवं हि सर्वं तनुतां विशालम्।।
नवं प्रभातं नवशर्वरी या
नवं दिनं लाति मदं नवीनम्।
नवे कथन्नातिनवा धराभा
नवं हि सर्वं लसतीह नाना।
नवप्रकाशो नवकौमुदीयं
पुनाति लोकं तटिनी नवीना।
मयूरनृत्यं नववर्धकं वै
नवं हि सर्वं भुवने वितानम्।।
प्रणौति देवीं सुधिया नवाम्बां
जनश्शिवार्थं नवरात्रकाले।
जुहोति संसारनवाभिसारी
नवे नवं स्याच्च मनोभिलाषः।।
नवीनसंवत्सर आगतोऽयं
नवो विचारः प्रसरेद्धरायां
नवं नवं भातु सतां च वाण्यां
लसेच्चिरं सौरभभारतीयम्।
Facebook Notice for EU!
You need to login to view and post FB Comments!