कमलसुकोमलमानसमन्दिरवासिनि! विष्णुपदीविनुते
निखिलजगत्सकलापदमात्मबलेन विखण्डयितुं निरते |
जय जय कोसिनदी-विमलाम्बु-विचुम्बितशु द्धपदे विमले!
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
भवभयभञ्जिनि कष्टनिवारिणि दुःखपयोधिवितारिणि हे
गिरिशपदाब्जनिवासिनि मानितमानवमानविवर्धिनि हे |
जय वनराजविगर्जनगुंजितभूतलभीतिविना शकरे
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
जय जय भैरवदेवकृतस्वरसंश्रवणार्थकसुश् रवणे
अविरलसंचलने निपुणे शुचिकोसिजले कृतसंस्तरणे |
सुखकरनाम जगत्प्रथितं तव राजतु तन्मम सुस्मरणे
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
रिपुदलनासिनि दितिकुलमर्दिनि रोगनिवारिणि शक्तियुते
बुधजनबुद्धिविकासिनि शुद्धमनोविनिवासिनि शुद्धतमे |
जय घुघुतीस्वरपावितकर्णयुगेन विभूषितगात्रि शुभे
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
मृदुसुमगुम्फितहाटकमण्डितहा रचमत्कृतदिव्यगले|
नवकटकावृतसुन्दरहस्तलतायुगले नवशस्त्रधरे |
कनकविभूषितगात्रि सदैव विधातृविनिर्मितमार्गगते
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
धवलनभोगतनूतनवारिददृश्यविभूषि तशान्तवने
सरसवसन्तसमागमकालिकमंजुलकुंजसु शोभिवने |
मलयजशीतलपर्वतदेशसमागतवायुकृतस् तवने
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
हिमगिरिदर्शनलाभमवाप्तुमना: सुजनो भ्रमितुं सततम्
भ्रमणसुखप्रदपर्वतराज्यमिदं विचिनोति जगत्प्रथितम् |
जय हिमराजसुशोभितमानवमण्डितमन्दि रवासिनि! हे
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
अभिलषितं प्रददासि भवानि! विनष्टधनाय मुदा त्वमयि
प्रकृतिसुरक्षणबोधनतत्परदिव् यतमप्रतिमेऽप्रतिमे l
जय नवरात्रसुपर्वसुपूजितसच्चरिते जननि प्रथिते
जय गिरिजे गिरिराजगृहांगणधूलिविभूषितदिव् यपदे ||
गिरिजास्तोत्रमिदं पुण्यं सर्वकामप्रदायकम् |
य: पठेन्मानुषो लोके स परां गतिमाप्नुयात् ||