गणादिपालं वदनाविशालं
सुमन्दचालं रमणीयभालम्।
भवार्णवे भक्तभयापहारं
नमामि गौरीसुतनन्दलालम्।।
सरक्तसिन्दूरविलेपिताङ्गं
विशेषदूर्वाङ्कुरपूजितांशम्।
शिवप्रियं मोदकमोदमानं
नमामि गौरीसुतनन्दलालम्।।
घनान्धकारोपितबुद्धिनाशं
प्रकाशसज्ज्ञानसुधाविधानम्।
नराधमानां धवलावतारं
नमामि गौरीसुतनन्दलालम्।।
सुभक्तिभावैर्गणनायकं तं
भजानि नित्यं सुखदायकं वै।
सुदृष्टिपातं कुरु भक्तनाथ!
नमामि गौरीसुतनन्दलालम्।।
मृदङ्गनृत्यं श्रुतिनादकारं
सुराभिपूज्यं ललितस्वरूपम्।
सदा जगत्यामथ पूज्यमानं
नमामि गौरीसुतनन्दलालम्।।