द्विजराज:
चलसीह नु तारकिते गगने,
प्रभया हृदि कौतुकतां भरसि।
रजनीकर! सोम! तमो हरसि,
द्विजराज! सदा मधुरं हससि।।१
सुखदं तव दर्शनमस्ति सदा,
गिरिशो वहतीह मुदा शिरसा।
प्रकृतौ तव सास्ति सुशीतलता,
तिमिरेSत्र चकास्सि विभासि तथा।।२
उडुराज! विभासि यदा दिवि रे!,
उडवो भुवि भान्ति तदैव सखे!।
उडुभि: द्युतिरस्ति तवैव हृता,
शिशिरै: किरणै: लसतीह धरा।।३
त्वयि सन्ति कला: सकला: रुचिरा:,
भव चन्द्रनिभो निगदन्ति जना:।
कतिभिस्तु मुखं तुलितं त्वयका,
अयि रात्रिपते! त्वयि मे कविता।।४
भुवने किरसीह करैरमृतम्,
शिशुबालजनेषु समुल्लसनम्।
कुरुषे युवमानसमारभरम्,
अथ वृद्ध-वरिष्ठ-जनेषु सुखम्।।५
सघनं तिमिरं कवलीकुरुषे,
प्रसभं रसिकस्य मनोहरसे।
प्रभया तव कैरविणी हसति,
सुचकोरखगोSपि तृषां हरति।।६
तव गोचरतास्ति सखे! गगने,
सहसैव घने विनिगूहसि रे!।
जलदेन समं खलु खेलसि किम्?,
द्विजराज! गृहं मम गच्छसि किम्?।।७
शृणु मामकमित्र! शुभं वचनम्,
उदयेन च ते हृदि मेSस्ति सुखम्।
वदने मम पश्य मयैव समम्,
गृहमेहि मया सह खेल चिरम्।।८
जननी मम वक्ति सदा गगने,
शशिनं परिदर्श्य गते जलदे।
मुखमस्ति ममापि सुधांशुसमम्,
वद चन्दिर! मेSस्ति तथा वदनम्?।।९
गगनाङ्गणमेव सदाश्रयसे,
भुवनेSवतरिष्यसि किं भण रे!।
श्रुतवान् शतधा तव चित्रकथा:,
परिदर्शय सम्प्रति चन्द्रकला:।।१०
नवनीरदनीलघने तिमिरे,
सुखशेवधिरस्ति शशी भुवने।
द्विजराजपदप्रचितोSस्ति शशी,
युवराजकृता कवितापि शशी।।११