ऋतं विलपद् धावद्भाति
अनृतमेतद् विहसद्माति
कृतं निपतद् विचलद्भाति श्रूयते कलिमाया मित्र!
उलूकः पश्यति दिवाधुना
किंशुको गन्धं वहतीति
मूर्च्छिता पुनर्नवा बाभाति कथ्यते कलिमाया मित्र!
मदिरमत्तो मालाकारो
बह्निना सिञ्चति लतामहो
काङ्क्षितं सौरभमतःपरं भासते कलिमाया मित्र!
वारबालापि मञ्चस्था
सतीत्वं पाठयति हन्त
विभूषणहीना सधवेयं दृश्यते कलिमाया मित्र!
गर्दभः सर्वज्ञो विदितो
ज्ञानपरिपाटी छिन्नेयम्
पात्रता धूलिधूसरैव गीयते कलिमाया मित्र!
खपुष्पाणि वर्षन्तीह
राजभवनेषु दिवानक्तम्,
जडधियो राजन्ते तत्र वर्तते कलिमाया मित्र!
शशोSपि स्वर्णश्रृङ्गमहितो
राजते कच्छपपृष्ठेSस्मिन्
श्रृगाला दलपतिनः सन्ति राजते कलिमाया मित्र!
कुलीनैरधुना पुरस्कृतः
कदाचिद् वन्ध्यापुत्रो हि
दण्डितः श्रवणकुमारोयं वर्धते कलिमाया मित्र!
अटन्ति हैममृगाःपुरतो
जानकी लुब्धा पुनः कथम्,
धीरपि स्खलिता सञ्जाता सूच्यते कलिमाया मित्र!