वित्तं न मानं न कुलं न रूपं
लोके नरो नो गणयत्यहो य:।
ब्रूते तथा मद्विषये च किं को
भारं विना जीवति जीवनं स:।।1।।
सुयोग्यकाले कुरुते स्वकार्यं
दृष्ट्वा च बाधां न नरो बिभेति।
अभ्रे हि सूर्यस्सततं यथा य:
भारं विना जीवति जीवनं स:।।2।।
स्थित्वा न दैवे पुरुष: कदापि
जीवत्यहो कर्मणि यो नितान्तम्।
सर्वैश्च साकं प्रणयं करोति
भारं विना जीवति जीवनं स:।।3।।
परोपकारं तरुवत् करोति
धृत्वा ह्यतीच्छा: सततं न चित्ते।
कार्यञ्च य: साधुतया करोति
भारं विना जीवति जीवनं स:।।4।।
नो निन्दतीहेर्ष्यति मानवो न
दुःखे न दुःखी न सुखे सुखी य:।
सर्वं सदा पश्यति चात्मवद् वै
भारं विना जीवति जीवनं स:।।5।।