( अनुष्टुप् छंदा: )
न लब्ध्वाशफरीमेकां
बहुकाले स्थिते पदे।
श्लाघयामन्त्रयिष्यामि
बकोऽयमित्यशोचयत्।।१।।
कामिनि जलहारिणि
चंचले नवयौवने ।
मुक्ताकाशं तु दास्यामि
खल्वागच्छ जलात्पर:।।२।।
ललितमांसलोभेन
व्योमदानेतिभाषसे।
वञ्चकोऽसि जन्मना त्वं
कृत्येनेति प्रकाशितम्।।३।।
शरीरेण हि शुभ्रोऽहम्
दर्शने बहुशोभनम्।
तथापि दत्तचित्तेन
शोच्यामि तव मुक्तये।।४।।
इदं शुभ्रशरीरं ते
कलुषोपरिच्छादनम्।
गच्छ! गच्छ! दुरात्मा रे
मिथ्यावादि प्रवञ्चक:।।५।।
शफर्या स्वविवेकेन
कृतं शरीररक्षणम्।
इत्थं निरूत्तरं प्राप्य
बकोऽयन्त्रपलायित:।।६।।






