संस्कृत-रामायणम्
[सरलया संस्कृत-गिरा वर्णिता रामायणस्य धारावाहिकी कथा]
| अथ प्रथमः अङ्कः |
[ शीर्षक-गीतस्य समवेतः पार्श्व-स्वरः] –
आदौ राम-तपोवनादि-गमनंहत्वा मृगं काञ्चनम्,
वैदेही-हरणं जटायु-मरणं सुग्रीव-सम्भाषणम् |
वाली-निर्दलनं समुद्र-तरणं लङ्कापुरी-दाहनम्,
पश्चात् रावण-कुम्भकर्ण-हननमेतद्धि रामायणम् ||
– नान्दी –
रामो राजमणिः सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचर-चमूः रामाय तस्मै नमः |
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्,
रामे चित्त-लयः सदा भवतु मे भोः राम ! मामुद्धर ||
[ ततः प्रविशति नटी ]
नटी- अहो ! गृहस्थस्य भवति महद् दायित्वम् ! अद्य क्लान्तायाः मममनसि सुधा-स्वाद-समायाः राम-कथायाः श्रवणार्थम् उत्सहते मानसम् | स्वान्तःसुखाय मया अवश्यमेव अमृत-स्यन्दिनी राम-कथा निपेया |
[ इतस्ततः अवलोकयति ]कुत्र नु गतः स्यात् महोदयः ? तर्हि आकारयामि |
भोः महोदय ! भोः सूत्रधार !! [ प्रविश्य ]
सूत्रधारः – आर्ये ! अयमस्मि | कथं माम् आकारयसि ?
नटी- आर्य ! जानाम्यहं यत् भवान् राम-कथानुकीर्तने कुशलः | अनारतं गृह-कार्येषु निरताहं साम्प्रतं सुधा-स्वाद-समायाः राम-कथायाः श्रवणार्थम् उत्सहे |
सूत्रधारः – भवतु ! आज्ञप्तोsस्मि अत्र-विबुधैः यत् सरलया संस्कृत-गिरा अस्माभिः कुशीलवैः रामकथायाःधारावाहिकम् अनुकीर्त्तनं प्रदर्शनम् चानुष्ठेयमिति |
नटी – सौभाग्येन अयं हि मणि-काञ्चन-संयोगः | आगच्छतु ! एतदर्थं सज्जाः भवामः | [ निर्गच्छ्तः ]
दृश्य-परिवर्तनम् -[ पार्श्व-वर्ती स्वरः ]
मान्याः पारिषद्याः ! भवन्तः जानन्ति एव यत् एकदा तपस्वी वाल्मीकिः मुनिःस्वाध्याय-निरतं वाग्विदां वरं मुनि-पुङ्गवं नारदम् अपृच्छत् |
[ प्रविशतःनारदःवाल्मीकिःच]
वाल्मीकिः – हे महर्षे ! मम परं कौतूहलं वर्तते | साम्प्रतं अस्मिन् लोके कः गुणवान् अस्ति ? कः च वीर्यवान् ? कः धर्मज्ञः कः च कृतज्ञः ? कः सत्यवाक्यः कः च दृढव्रतः वर्तते ? हे मुनि-पुङ्गव ! अहं विश्वसिमि यत् एवंविधं नरं ज्ञातुं त्वं समर्थः असि |अहम् एतत् श्रोतुमिच्छामि |नारदः -हे मुने ! श्रूयताम् |त्वया कीर्तिताः गुणाः बहवः दुर्लभाः सन्ति |अहं सुविचार्य वक्ष्यामि | एतैः गुणैः युक्तः इक्ष्वाकु-वंश-प्रभवः जनैः च रामः इति श्रुतः अस्ति | सः कौसल्यानन्द-वर्धनः सर्व-गुणोपेतः अस्ति |
वाल्मीकिः – अपरे के के गुणाः सन्ति तस्मिन् नरोत्तमे ?
नारदः – सः दशरथ-नन्दनः गाम्भीर्ये समुद्र इव वर्तते | धैर्येण हिमवान् इव प्रतिभाति | वीर्ये विष्णुना सदृशः अस्ति | सोमवत् सर्वप्रियः वर्तते | किं वा कथयेयम् ? सः बुद्धिमान्, नीतिमान्, वाग्मी, श्रीमान्, प्रतापवान् चास्ति |
वाल्मीकिः – धन्योsस्मि ? हे देवर्षे ? नरोत्तमे कौसल्यानन्दने अन्ये के के गुणाः सन्ति ?
नारदः – हे धर्मात्मन् ! सः आजानुबाहुः महोरस्कः कम्बुग्रीवः सुललाटः पीनवक्षा विशालाक्षः च वर्तते | सः वेद-वेदाङ्ग-तत्त्वज्ञः सर्वलोक-प्रियः साधुः सत्य-सन्धः चास्ति | किन्नु कथयानि, महर्षे ! यदि साक्षात् शारदा लिखति चेत्, तदपि तस्य गुणानां पारं नैव वर्तते |
दृश्य-परिवर्तनम् -[ पार्श्व-स्वरः] – महर्षेः नारदस्य मुख-कमलात् एतानि वचान्सि श्रुत्वा वाक्य-विशारदः धर्मात्मा वाल्मीकिः सह-शिष्यः तं महामुनिं पूजयामास | तथापूजितः देवर्षिः नारदः अभ्यनुज्ञातः सन् विहायसं जगाम | तस्मिन् देवलोकं गते, किञ्चित् कालानन्तरं मुनिः वाल्मीकिः स्नानार्थं गङ्गायाः अविदूरतः तमसा-तीरं जगाम | तत्र तमसायाः तटे सः क्रौञ्चयोः मिथुनं ददर्श | चरन्तम् एतत् क्रौञ्च-मिथुनं चारु-निस्वनम् आसीत् | हा ! हन्त !! तस्य मुनेः पश्यतः एव कश्चन पाप-निश्चयः निषादः तस्मात् मिथुनाद् एकं पुमान्सं जघान | तं निहतं शोणित-परीताङ्गं महीतले चेष्टमानं दृष्ट्वा तस्य भार्या क्रौञ्ची करुणां गिरं रुराव | निषादेन निपातितं तं तथाविधं क्रौञ्चं द्विजं वीक्ष्य, रुदतीं क्रौञ्चीं च निशम्य तस्य धर्मात्मनः ऋषेः कारुण्यं समपद्यत | ततः सः इदं वचनम् अब्रवीत् –
[ रङ्गमञ्चे प्रविश्य वाल्मीकिः, करुणया क्रोधेन च ]
अहो ! अत्याहितम् …!!!
“मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः |
यत्क्रौञ्च-मिथुनादेकमवधीः काम-मोहितम् || अवधीः काम-मोहितम् ||”
[ प्रतिध्वनि-प्रभावः – echo- effect ]
वाल्मीकिः [ स्वगतम् ] कष्टं नु खलु ! मया किमिदं व्याहृतम् ? अस्य शकुनेः शोकार्तेन करुणया च विचलितोsहं हृदि महतीं चिन्ताम् अनुभवामि |[ निष्क्रामति ]
दृश्य-परिवर्तनम् -[ प्रविश्य ]
[ ततः प्रविशति वाल्मीकि-शिष्यः भरद्वाजः ]
सूत्रधारः – एवं चिन्तयन् महाप्राज्ञः वाल्मीकिः स्व-शिष्यं भरद्वाजं इदं वाक्यम् अब्रवीत् –
वाल्मीकिः – “पाद-बद्धोsक्षर-समः, तन्त्रीलय-समन्वितः |
शोकार्तस्य प्रवृत्तो मे, श्लोको भवतु नान्यथा ||”
भरद्वाजः – आचार्य-प्रवर ! ब्रुवतोsत्र भवतः अनुत्तमं वाक्यम् अहं गृहीतवान् | अन्यत् किं करवाणि ?
वाल्मीकिः – भवतु ! तुष्टोऽस्मि | साम्प्रतं तीर्थेsस्मिन् यथाविधि स्नानाभिषेकादि-क्रियाम् अनुष्ठातुं वाञ्छामि |
भरद्वाजः – यथाभिलषति अत्र भवान् |[ प्रविश्य ]
नटी- महर्षिः वाल्मीकिः तमेव शोकोद्भवं श्लोकं तदर्थं चानुचिन्तयन् आश्रमम् उपावर्तत, ध्यानम् आस्थाय च शिष्येभ्यः अन्याः कथाः वर्णयितुम् आरभत | एवंस्थिते मुनिपुङ्गवे वाल्मीकौ पितामहः ब्रह्मा तत्र आजगाम |
[ निर्गता ][ ततः प्रविशति पितामहः ब्रह्मा, सशिष्यः मुनिः वाल्मीकिः च ]
ब्रह्मा- हे मुनिपुङ्गव ! नाति-चिरं देवर्षेः नारदस्य श्रीमुखात् त्वया रामस्य यत् वृत्तं श्रुतम्, तत् श्रीराम-चरित्रं त्वं कथय | काव्यरूपेण वर्णय | तत् काव्यं जगति “आदिकाव्य”त्वेन ख्यापयिष्यते | अहं पितामहः ब्रह्मा साक्षाद् वदामि यत् –
“यावत् स्थास्यन्ति गिरयः सरितश्च महीतले |
तावद् रामायणी कथा, लोकेषु प्रचरिष्यति ||” [ प्रविश्य ]
सूत्रधारः – एवं हि मर्यादा-पुरुषोत्तमस्य इयं सुधा-स्यन्दिनी रामायणी कथा अस्मिन् भूतले अवतीर्णा | अयं इक्ष्वाकु-वंशावतंसः राघवः श्रीरामः साक्षाद् परब्रह्म-परमात्मा इति वर्णयन् गोस्वामी तुलसीदासः निगदति – “हरिः अनन्तः हरिकथाः अनन्ताः |” स्वीय-रामचरित-महाकाव्ये राम-कथा-गायनस्य महत्वम् आनन्दम् अलौकिकत्वं च वर्णयन् असौ सानन्दं गायति -[ समवेत-स्वरेण समापन-गानम् ]
“नाना-पुराण-निगमागम-सम्मतं यद्,
रामायणे निगदितं क्वचिदन्यतोsपि |
स्वान्तःसुखाय तुलसी-रघुनाथ-गाथा-
भाषा-निबन्धमति-मञ्जुलमातनोति ||
[ समापन-गानम् ]| इति प्रथमः अङ्कः |
| अथ द्वितीयः अङ्कः |
[ शीर्षक-गीतस्य समवेतः पार्श्व-स्वरः] –
आदौ राम-तपोवनादि-गमनं हत्वा मृगं काञ्चनम्,
वैदेही-हरणं जटायु-मरणं सुग्रीव-सम्भाषणम् |
वाली-निर्दलनं समुद्र-तरणं लङ्कापुरी-दाहनम्,
पश्चात् रावण-कुम्भकर्ण-हननमेतद्धि रामायणम् ||
– नान्दी –
रामो राजमणिः सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचर-चमूः रामाय तस्मै नमः |
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्,
रामे चित्त-लयः सदा भवतु मे भोः राम ! मामुद्धर ||
[ सूत्रधारः नटी च प्रविशतः ]
नटी- आर्य ! संस्कृत-रामायणस्य प्रथमे अङ्के वयं दृष्टवन्तः यत् सुबहु-कालात् जगति आदि-काव्यत्वेन ख्यातं रामचरितं वस्तुतः करुणा-काव्यं वर्तते | महर्षेः वाल्मीकेः करुणा-कारणात् काव्यमिदं सर्वेषां श्रोत्र-पेयं सुधा-स्यन्दि सञ्जातम् |
सूत्रधारः – अथ किम् ? पितामहस्य ब्रह्मणः प्रेरणाम् आदाय भावितात्मा आदिकविः वाल्मीकिः निश्चयम् अकरोत् यत् अहम् ईदृशैः अनुष्टुप्-छन्दैः सम्पूर्णमपि रामायणं करवाणि इति |
नटी- ततस्ततः ?
सूत्रधारः – ततः परं धर्मार्थ-सहितं हितकारि समग्रं राम-चरितं काव्यरूपेण संरचयितुं आदिकविः कथा-नायकस्य सर्वमपि वृत्तं संकलयितुम् आरभत |
[ ततः प्रविशति सशिष्यः वाल्मीकिः ]
वाल्मीकिः – वत्स ! योगमास्थितः अहं समाधि-बलेन सपुत्रकस्य सपत्नीकस्य च राज्ञः दशरथस्य सर्वं वृत्तं साक्षात्कृतवान् |
भरद्वाजः – आचार्य ! किन्नाम दुर्लभम् अस्ति अत्र भगवतः ध्यानावस्थितस्य तद्गत-मनसः महर्षेः ?
वाल्मीकिः – वत्स ! साम्प्रतं पाणौ यथा आमलकं साक्षात्कर्तुं शक्यते तद्वद् कृत्स्नमपि श्रीराम-चरितं पश्यामि | वने चरता सत्यसन्धेन रामेण किं किं प्राप्तमिति सर्वमहं आत्मबलेन ज्ञातवान् | साम्प्रतं अभिरामस्य रामस्य सर्वमपि चरितं विचित्रपदम् अर्थवच्च कर्तुं प्रयते |
भरद्वाजः – धन्योऽस्मि भगवन् ! ममेदं परमं सौभाग्यं यत् अत्र भगवता निबद्धायाः रामकथायाः सुधा-रसं पातुं शक्ष्यामि |
[ प्रविशतः सूत्रधारः नटी च ]
सूत्रधारः – “प्राप्त-राज्यस्य रामस्य वाल्मीकिः भगवान् ऋषिः |
चकार चरितं कृत्स्नं विचित्र-पदमर्थवत् ||
नटी- मया तु एतदपि श्रुतं यत् राम-नाम्नः अलौकिकः महिमा वर्तते | साक्षात् महादेवः भगवतीं पार्वतीम् अभिलक्ष्य कथयति-
“राम रामेति रामेति, रमे रामे मनोरमे !
सहस्र-नाम तत्तुल्यं, रामनाम वरानने !!”
सूत्रधारः – तर्हि आर्य-मिश्रान् सम्बोधयन् घोषयामि –
“अत्र भवन्तो भवन्तः दर्शकाः श्रोतारः च शृण्वन्तु पश्यन्तु च राम-कथायाः विविधान् प्रसङ्गान् …” [ इति निष्क्रामतः ]
[ दृश्य-परिवर्तनम् ][ प्रविशति महाराजः दशरथः तन्मन्त्रि-मण्डलं च ]
महाराज-दशरथः – मम प्रियाः मन्त्रिणः ! लोक-विश्रुता मम अयोध्या नाम नगरी |अन्यतमः मन्त्री – महाराज ! न केवलं मानवाः, देवाः अपि अयोध्यायाः प्रभावं जानन्ति |द्वितीयः मन्त्री – भवता विभूषिता एषा नगरी साक्षात् मनुना निर्मिता पुरी इव प्रतीयते | महता सुविभक्तेन राजमार्गेण चेयं सुशोभिता अस्ति |
अन्यः मन्त्री – राजन् ! नित्यशः जलसिक्तः राजमार्गोsयं मुक्त-पुष्पावकीर्णः सन् विशोभते |
चतुर्थः मन्त्री- हे नृपोत्तम ! तव राजधान्यां सर्व-शिल्पिनः निवसन्ति | कपाट-तोरणवती इयं राजधानी सुभक्तैः विविधैः च आपणैः सर्व-यन्त्रायुधैः च संयुक्ता अस्ति |
प्रथमः मन्त्री- राजन् ! अस्यां पुर्यां सर्वसंग्रहः वेदवित् चात्र भवान् प्रजाः पालयति | अत्र पुर्यां जनाः तुष्टाः, बहुश्रुताः, सत्यवादिनः च सन्ति |
अपरः मन्त्री – महाराज ! अस्मिन् पुरे न कश्चन अल्प-सन्निचयः | सर्वः अपि कुटुम्बी धन-धान्यवान्, गवाश्व-सम्पन्नः स्वैः धनैः एव तुष्टोऽस्ति |
इतरः – भोः राजन् ! तव राजधान्यां कीदृशाः नागरिकाः वर्तन्ते, तच्छृणु ! न कुत्रचिदपि कश्चन कामी वा कदर्यः वा नृशंसः, अपि च,न कश्चन अविद्वान् वा नास्तिकोsस्ति | किं बहुना –
“सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः |
मुदिताः शील-वृत्ताभ्यां महर्षयः इवामलाः ||”
महाराजः दशरथः – अस्तु ! एतत् सर्वं श्रुत्वा प्रसीदतितरां मे मनः | परञ्च….
सर्वेsपि – परञ्च … किं महाराज ! कृपया कथय ! वयं तव मन्त्रिणः | किं करणीयमिति आज्ञापय !
महाराजः दशरथः – भवतु ! साम्प्रतं मम ऐकान्तिकं तद्-दुःखं गुरवे एव निवेदयिष्यामि | अस्तु तावत् | सभायाः विसर्जनं भवेत् |
सर्वे- जयतु ! जयतु !! कोसलपतिः महाराजः दशरथः !!!
[ सर्वे निर्गच्छन्ति ][ दृश्य-परिवर्तनम् ]
[ ततः प्रविशति सूत्रधारः नटी च ]
नटी- आर्य ! त्वया दृष्टं यत् कोसलपतेः दशरथस्य राज्यं कियत् समृद्धं सुव्यवस्थितं सुख-सम्पन्नञ्च वर्तते |
सूत्रधारः – आम् ! सर्वैः अपि दर्शकैः श्रोतृभिः च दृष्टं श्रुतञ्च | एतत् सर्वं दृष्ट्वा श्रुत्वा च सर्वे दर्शकाः श्रोतारः च आनन्द-सन्दोहेन मोमुद्यन्ते |
नटी- सभायाः अन्ते महाराजेन दशरथेन “परञ्च” इति उक्त्वा न किमपि उक्तम् | तत् किमर्थम् ?
सूत्रधारः – राजानो हि गूढ-वृत्ताः | तेषां मनोगतं न हि सरलतया अवगन्तुं पार्यते | आदिकविः वाल्मीकिः एव रहस्यमिदम् उद्घाटयितुं शक्नोति |
नटी- साधु ! तदा तस्य एव चरणयोः गच्छावः !!
सूत्रधारः- एहि ! साधयावः तावत् !!
[ समापन-गानम् ]| इति द्वितीयः अङ्कः |
| अथ तृतीयः अङ्कः |
[ शीर्षक-गीतस्य समवेतः पार्श्व-स्वरः] –
आदौ राम-तपोवनादि-गमनं हत्वा मृगं काञ्चनम्,
वैदेही-हरणं जटायु-मरणं सुग्रीव-सम्भाषणम् |
वाली-निर्दलनं समुद्र-तरणं लङ्कापुरी-दाहनम्,
पश्चात् रावण-कुम्भकर्ण-हननमेतद्धि रामायणम् ||
– नान्दी –
रामो राजमणिः सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचर-चमूः रामाय तस्मै नमः |
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्,
रामे चित्त-लयः सदा भवतु मे भोः राम ! मामुद्धर ||
[ततः प्रविशति सूत्रधारः नटी च ]
सूत्रधारः- आर्ये ! यथा साक्षात् महादेवेन वर्णितं राम-नाम-माहात्म्यं विगते अङ्के त्वया सन्दर्भितम् आसीत् तद्वद् … …
नटी- किं किम् ? न किमपि स्मरामि |
सूत्रधारः- अहो ! अद्यत्वे त्वं विस्मरण-शीला सञ्जातासि | त्वया तु …
“राम रामेति रामेति, रमे रामे मनोरमे !
सहस्र-नाम तत्तुल्यं, रामनाम वरानने !!”इति श्लोकः उद्धृतः आसीत्, उक्तमासीत् यत् राम-नाम्नः अलौकिकः महिमा वर्तते | साक्षात् महादेवः भगवतीं पार्वतीम् अभिलक्ष्य एवं कथयति |
नटी- अहो ! त्वया स्मारितं तु सम्प्रति स्मृतिपथम् आयातम् |
सूत्रधारः – महोदये ! पश्यतु … ! गोस्वामी तुलसीदासः कियत्-समर्पण-भावेन रामस्य सम्मुखं स्वीयान् हार्दान् भावान् प्रकटयति ?
नटी- कृपया शीघ्रं कथयतु |
सूत्रधारः – [ गायति ]
“नान्या स्पृहा रघुपते ! हृदयेsस्मदीये,
सत्यं वदामि च भवान् निखिलान्तरात्मा |
भक्तिं प्रयच्छ रघुपुङ्गव ! निर्भरां मे,
कामादि-दोष-रहितं कुरु मानसं च ||”
नटी – अहो ! अद्भुतमिदं पद्यम् | गोस्वामिनः तुलसीदासस्य संस्कृत-वाणी अतितरां सुललिता, हृद्या, मनोज्ञा, रमणीया च |
सूत्रधारः – कथन्न ? रामायण-रसिकेषु इयं सूक्तिः सुप्रसिद्धा यत् साक्षात् आदिकविः वाल्मीकिः एव कलियुगे हुलसी-पुत्रत्वेन तुलसी-नामा अजायत |
नटी- अहो ! विलक्षणता परमात्मनः लीला-वैभवस्य |
सूत्रधारः – अस्तु, आगच्छ तावत् संस्कृत-रामायणस्य तृतीयम् अङ्कम् उपस्थापयेव |
नटी – भाव ! एका जिज्ञासास्ति | राज्ञः दशरथस्य मन्त्रि-मण्डले कति मन्त्रिणः कार्यनिरताः आसन् ?सूत्रधारः – वाल्मीकि-रामायणस्य बाल-काण्डे पञ्चमे सर्गे द्वितीयः श्लोकः एवं सूचयति –
“अष्टौ बभूवुः वीरस्य, तस्यामात्या यशस्विनः |
शुचयः चानुरक्ताः च, राजकृत्येषु नित्यशः ||”
नटी- साधु ! साधु !! तेषां नामानि अपि ज्ञातुं शक्यते ?
सूत्रधारः – कथन्न ? अत्रैव तृतीयः श्लोकः सूचयति-
“ धृष्टिः जयन्तो विजयः, सुराष्ट्रो राष्ट्रविवर्धनः |
अकोपो धर्मपालश्च, सुमन्त्रः चाष्टमोsर्थवित् ||”
नटी – किं दशरथस्य राजसभायां केचन ऋत्विजः अपि आसन् ?
सूत्रधारः – एवम् | ऋषिः वसिष्ठः, ऋषिः वामदेवः च ऋत्विजौ आस्ताम् | अपि च, पूर्वोक्तान् प्रमुखान् अष्टौ मन्त्रिणः अतिरिच्य केचन अपरेsपि मन्त्रिणः आसन् |
नटी- अपरे ये मन्त्रिणः, ते कीदृशाः आसन् ?
सूत्रधारः – ते सर्वेsपि कुशलाः, नियतेन्द्रियाः, विद्या-विनीताः, श्रीमन्तः, ह्रीमन्तः, महात्मानः, शास्त्रज्ञाः, दृढनिश्चयाः चासन् |
नटी- भद्र ! दशरथस्य मनसि काचित् महती चिन्ता आसीत् इति विगते अङ्के वयं ज्ञातवन्तः | का नाम्नी आसीत् सा चिन्ता ?
सूत्रधारः – आर्ये ! आगच्छ, तद् अवलोकयावः | साधयावस्तावत् |
[ दृश्य-परिवर्तनम् ][ ततः प्रविशति महाराजः दशरथः ]
महाराजः दशरथः – [ स्वगतम् ]
- महर्षिभिः पूर्वाचार्यैः राजानः आदिष्टाः सन्ति यत् धर्मार्थ-काम-मोक्षेति पुरुषार्थ-चतुष्टस्य प्राप्त्यर्थम् अस्ति एतत् मानव-जीवनम् | धर्मज्ञोsहं सर्वथा सुखी, मम प्रजाः अपि प्रसन्नाः, तुष्टाः च | परमेकं शूलं मां व्यथयति | सति दीर्घेsपि आयुषि नास्ति कश्चन वंशकरः मम वंशे | किं कुर्याम् ! कुत्र गच्छेयम् ? अहर्निशं सुतार्थं तप्यमानोsस्मि | अस्तु, “सुतार्थं वै पुत्रयागेन, किमर्थं न यजाम्यहम् ?”, तर्हि पुत्रेष्टि-यज्ञस्य अनुष्ठानार्थं सर्व-विध-सज्जोपकल्पनार्थं ऋत्विजः आदिशामि |
[ प्रविशति सूतः सुमन्त्रः ]
सुमन्त्रः – महाराज ! भवतः मनोगतं जानामि | सुताभाव-शूलेन दुःखितः भवान् एवं चिन्ता-सागरे निमग्नः इति विभावयामि |
महाराजः दशरथः- सम्यक् परिभावितं त्वया, सुमन्त्र ! चिन्तयामि यत् पुत्रेष्टि-काम-यज्ञस्य अनुष्ठानम् आचरेम ?
सुमन्त्रः – राजन् ! मया श्रुतं यत् तेजस्वी तपस्वी च ऋष्यशृङ्गः ऋषिः अरण्ये साधना-निरतः | विश्वसिमि यत् अस्य पुत्रेष्टि-यागस्य आचार्य-पदे असौ नियोक्ष्यते चेत् नूनं ते पुत्र-प्राप्तिः भविष्यति |
[ निर्गच्छतः ][ दृश्य-परिवर्तनम् ]
सूत्रधारः – भोः भोः सहृदयाः ! सामाजिकाः !! एवं हि पुत्र-कामेष्टि-यागार्थं कृत-निश्चये राजनि –
“सुमन्त्रस्य वचः श्रुत्वा, हृष्टो दशरथोsभवत् |
सान्तःपुरः सहामात्यः, प्रययौ यत्र स द्विजः ||”
[ समापन-गानम् ]| इति तृतीयः अङ्कः |
– डॉ. बलदेवानन्द सागर