न जाने कथम्
न जाने कथं भाततिर्हन्त रुद्धा।
नवोन्मेषसंविद्गतिर्हन्त रुद्धा ।1।
मणिर्दृश्यते नोऽत्र मार्गे विकीर्णः
गुणग्राहिणां पद्धतिर्हन्त रुद्धा ।2।
जगन्मङ्गलार्थं सुविद्याविकासे
मिथः पण्डितानां रतिर्हन्त रुद्धा।3।
अनाचारवृत्तिः परां याति वृद्धिम्
शुभाकाङ्क्षिणी सन्मतिर्हन्त रुद्धा।4।
अमूले विवादो दृढप्रीतिमत्सु
बुधैस्तत्र वन्द्या नतिर्हन्त रुद्धा।5।
मनोवेदना नो लयं यान्ति धृष्टाः
क्वचित् सौभगानां ततिर्हन्त रुद्धा।6।
असत्यामृतं रोचते भूरि लोके
ऋतप्रत्ययोः संहतिर्हन्त रुद्धा।7।
सुहृत् संजय त्वं नु वाचंयमः स्याः
ऋतोक्त्या तु मानोन्नतिर्हन्त रुद्धा।8।
– डॉ.संजय कुमार चौबे