जयतु संस्कृतम्
कविता – व्यथा
त्रस्ता धरित्रीयं प्रभो!
किं श्रूयते नास्याः व्यथा?
अस्यां पृथिव्यां वर्तते,
खलु दुःखदा हिंसाकथा॥१॥
कंसैरनेकैः साम्प्रतं,
संस्था जनानां हन्यते।
अनियन्त्रितास्ते हिंसकाः,
सुप्तो विधाता मन्यते।
मौने शयानो विद्यते,
चेद् दूयते न भवान्यथा॥२॥
रक्तेन भूमिःस्नापिता,
क्रूरैर्मदान्धैर्दुर्जनैः।
पृथ्वी कृताsवस्त्रा यथा,
दुर्योधनैर्दुःशासनैः।
सा चीत्करोति हरे!धरा,
शरणागता ते सर्वथा॥३॥
दीनेव मानवसभ्यता,
खलु दृश्यते तेषां करे।
सा द्रौपदीवभयातुरा,
दुर्योधनानाञ्चत्वरे।
मोहे प्रवीराश्चार्जुनाः,
बध्नाति तान् मोहप्रथा॥४॥
संहारहेतोश्चेतना-
स्तेषां क्रियन्तां जाग्रताः।
आवश्यकं खलु दृश्यते,
युद्धे भवेयुः संरताः।
नाशो हि तेषामीप्सितः,
शान्तिप्रयासास्ते वृथा॥५॥
कंसाश्च दुष्टा रावणाः,
हिंसाप्रियाः दुर्योधनाः।
वाञ्छन्ति शान्तिं नोद्धताः,
व्यर्थं हि शान्तेर्याचनाः।
न ‘प्रेम’ तेषां जीवने,
भ्रान्ताश्च ते हिंसारथाः॥६॥
– प्रेमशंकर शर्मा