जयतु संस्कृतम्
कविता
दोला राजते निम्बशाखिनि
दोलति विन्ध्यवासिनी ना
श्यामश्लक्षणपर्णाच्छादित
सघनसान्द्रशीतलछायासु
दोला राजते निम्बशाखिनि
दोलति विन्ध्यवासिनी ना
शाखाविवरे अरुणरश्मय:
क्रीडन्त्य: विलसन्ति सुन्दरा:
शीतलमोहकमन्दसमीर:
वेल्लति शनैः शनैः हिन्दोलम्
दोला राजते निम्बशाखिनि
दोलति विन्ध्यवासिनी ना
गच्छन् दोला उच्चाकाशे
चुम्बति कृष्णमेघसमूहम्
अध: प्रवहते गङ्गाधारा
स्पृशति देविपदमपद्मयुगम्
दोला राजते निम्बशाखिनि
दोलति विन्ध्यवासिनी ना
गायतीह नरनारिवृन्द:
मन्दमधुरकजरीगीतम्
पिकालिगानं मयूरनृत्यं
मोहयति त्रलोक्यं ना
दोला राजते निम्बशाखिनि
दोलति विन्ध्यवासिनी ना
– डॉ. रेखा शुक्ला