जयतु संस्कृतम्
पानीयम्
सखे!परितो ज्वलद्ग्रामं विशीर्णं पश्य पानीयम्!
तृषादग्धे निशीथे द्वारि तिष्ठति कस्य पानीयम्!!
नभो नीलं प्रयच्छति कदा कस्मै किमपि लोकेsस्मिन्,
जनानां द्रवच्चीत्कारं प्रतनुतेsवश्यपानीयम्!
सरिद्धृत्कामनाभिस्सह तवातिख्यातरागोsयम्
प्रतीक्षारतमतो ह्यामज्जनं मित्रस्य पानीयम्!
भविष्यन्तीह दण्ड्याः निश्चितं ते बालिशाः ज्ञात्वा
विवर्णं जायते चित्रं सुहृद्वदनस्य पानीयम्!
स्वकौ हस्तौ निधाय स्वोदरे नैके म्रियन्ते भोः
स्वदेशे सरति कुक्षिम्भरं वाचामद्य पानीयम्!
कपोताः निस्पृहास्तेsब्रुवन्निजदेहान्तके काले-
महद्दुःखं स्वकीये राष्ट्ररक्तेsप्यद्य पानीयम्!
भवतु कूपेषु कासारेषु निर्झरिणीषु वा नो वा
प्रथमरक्ष्यं तदधिकं भूतले नयनस्य पानीयम्!
– डॉ. राम विनय सिंह