गीतम्
संस्कृते संस्कृति:
संस्कृते संस्कृति: सेवनीया सदा।
भाति कीर्ति: शुभा भारतीया सदा।1।
विश्वबन्धुत्वभावोऽस्ति वेदेषु भो!
भारते भावना वर्धनीया सदा।2।
रामभक्तिं समाराध्य रामायणे।
रामराज्यप्रथा पूजनीया सदा।3।
ज्ञानगीतामृतं पीयते भारते।
कृष्णरीति: मुदा राधनीया सदा।4।
मानवीयापरीक्षा महाभारते।
पाण्डवै: जीवने रक्षणीया सदा।5।
प्राप्य सौख्यं च शान्तिं जनै: जीवने।
सर्वशुभकामना प्रार्थनीया सदा।6।
ध्यानधैर्यं च योग: गुरोश्चादर:।
लोकहितभावना धारणीया सदा।7।
स्वालये सङ्गमे मन्दिरे चापणे ।
भारते स्वच्छता पालनीया सदा।8।
धर्मभाषावच: खानपानादय:।
मानवै: जीवने साधनीया सदा।9 ।
गीयते राष्ट्रगीतिर्न किं भारते ।
मातृभू: सादरं वन्दनीया सदा।10।
– डॉ.राजेन्द्र त्रिपाठी रसराज