जयतु संस्कृतम्
वार्ता
अखिल-भारतीय-प्राच्यविद्या-सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे सम्पन्नम्
हर्ष-प्रकर्ष-पुरस्सरं वृत्तमिदं संसूच्यते यद् अखिल-भारतीय-प्राच्यविद्या सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे ऐषमः जान्युआरि-मासे नवम-दिनाङ्कात् महता संरम्भेण समुत्साहेन च आरब्धम्, स्वामिनो विवेकानन्दस्य जन्म-जयन्त्यवसरे द्वादशे दिनाङ्के च परिपूर्णम्। अस्य सम्मेलनस्य शताब्द-पूर्तिं संलक्ष्य आयोजकेन कविकुलगुरु-कालिदास-संस्कृत-विश्व-विद्यालयेन आयोजितस्य त्रिदिवसात्मकस्य अस्याधिवेशनस्य अनेकानि वैशिष्ट्यानि समुपकल्पितानि आसन्। एतेषु वैशिष्ट्येषु अन्यतमत्वेन अधिवेशनारम्भस्य पूर्व-सन्ध्यावसरे सर्वेsपि सम्विभागाध्यक्षाः अधिवेशनस्य अध्यक्षेण महामहोपाध्येन प्रो. गौतम-पटेलेन, महासचिवया प्रो. सरोजाभाटे-महाभागया, कविकुलगुरु-कालिदास-संस्कृत-विश्व-विद्यालयस्य कुलपतिना प्रो. श्रीनिवास-वरखेडी-महोदयेन, अधिवेशनस्य स्थानीय-सचिवेन च प्रो.मधुसूदन-पेन्ना-वर्येण अभिनन्दिताः सम्मानिताश्च।
अस्याधिवेशनस्य वैशिष्ट्येषु प्रथमे दिने प्रातः समुत्साहिनां नगर-वासिनां संस्कृत-विद्यायाः भारतीय-विद्यायाः प्राच्यविद्यायाः चानुरागिणां छात्राणाम् अध्यापकानां शोधार्थिनां च शोभायात्रा अन्यतमा। एवमेव शोधपत्रोपस्थापनार्थं संस्कृत-पत्रकारिता, शिक्षाशास्त्रम्, मराठी-वाङ्मयञ्चेति विषय-त्रयं संयोज्य अधिवेशनस्य वैशिष्ट्यम् आयोजकैः सम्वर्धितम्| आरम्भदिने प्रातः भारतस्य माननीयेन उपराष्ट्रपतिना वैङ्कय्या-नायडू- महोदयेन अधिवेशनमिदम् उद्घाटितम्। वैविद्ध्यपूर्णेsस्मिन्उद्घाटन-सामारोहे डिण्डि-यात्रा-द्वारा प्रकाशित-ग्रन्थानां लोक-संसूचनं विहितम्। अत्रावसरे विदुषां सत्कार-सम्माननमपि अन्यतमम् आसीत्।
प्रथम-दिवसीये शोधपत्रोपस्थापने संस्कृत-पत्रकारिता-सम्विभागे देशस्य नाना-दिग्विभागेभ्यः सम्प्राप्तानि आहत्य द्वाविंशतिः शोध-पत्राणि सम्प्रस्तुतानि। एतादृशे महत्त्वाधायिनि सम्मेलने प्रथम-वारं अधुनातनोsयं महत्त्वाधायि-विषयः समावेशितः यस्य आध्यक्ष्यं संस्कृत-वार्ता-प्रसारक-चरेण बलदेवानन्द-सागरेण निर्व्यूढम्। विशिष्ट-व्याख्यान-माला, संस्कृत-पुस्तकानां प्रदर्शनी, संस्कृत-काव्य-गोष्ठी, दिनद्वयं विभिन्नाः सांस्कृतिक-कार्यक्रमाश्च अस्य अधिवेशनस्य आह्लादकरेषु वैशिष्ट्येषु अन्यतमत्वेन व्यराजन्त। संस्कृत-पुस्तक-प्रदर्शन्यां संस्कृत-विद्यायाः भारतीय-विद्यायाः प्राच्यविद्यायाः च प्रमुखाः भारतीय-प्रकाशकाः स्व-स्व-मण्डपेषु ग्रन्थ-प्रदर्शनानि विहितवन्तः। भारतस्य नाना-भागेभ्यः विदेशेभ्यः च समागताः विद्वान्सः प्रतिनिधयः च विशिष्टानि व्याख्यानानि गहनानुसन्धान-पूर्णानि शोधपत्राणि उपस्थापितवन्तः। अधिवेशनस्य स्थानीय-सचिवेन प्रो. पेन्ना-वर्येण संसूचितं यत् विविध-सम्विभागेषु आहत्य द्वादश-शतं शोधपत्राणि प्रस्तुतानि। विश्वस्य अतितरां महत्त्वाधायिनि अस्मिन् प्राच्यविद्या-सम्मेलनीये पञ्चाशत्तमे अधिवेशने सहभागीभूय प्रतिनिधयः विशिष्टाः विद्वान्सः अन्ये च सर्वेsपि सारस्वत-समाराधकाः धन्यताम् अन्वभवन्।
– डॉ. बलदेवानन्द सागर