कनकमंजरी
भवतु मे मन: कृष्ण तावके,
चरणपङ्कजे श्रद्धयानतम्।
मधुरगीतिकागायने तव,
सततसंरतं स्यादिदं प्रभो।।
विपदि नैव ते नाम केवलम्,
स्मरतु मे मनो भौतिके सुखे।
प्रहर नाथ हे चित्तवासना:,
निवस चिन्तने मामके सदा।।
मधुरतां प्रभो देहि सत्त्वरम्,
विलस मामके व्याकुले हृदि।
त्यजतु नैव ते नाममाधुरीम्,
कुरु कृपां तथा कृष्ण हे मयि।।
विहर कृष्ण हे मानसे मम,
विदल नाथ हे जन्मनो भयम्।
शरणमागतो दीनवत्सल,
तव हि पश्य मामेकदाधुना।।
अनृतसंसृतौ न भ्रमेत्क्वचिद्,
विकृतिसागरे नैव मज्जतु।
लसतु तावके भक्तिसद्मनि,
मम चलं मनो ध्वान्तसंकुलम्।।
रसमयी कथा जायते कलौ,
परममोक्षदा तावकी प्रभो।
धरति यो जनो नैजचेतसि,
नहि पुनर्भवं प्राप्य तिष्ठति।।
जगति नास्ति मे कोऽपि रक्षक:,
नहि परोऽस्ति मे कोऽपि तारक:।
त्वमिह केवलं मामक: प्रभु:,
सपदि देहि हे स्वीयदर्शनम्।।
******************
कालिदासीयगोसेवा
गोसेवनं यद्विहितं प्रशस्तम्,
राज्ञा दिलीपेन यशोऽधिपेन।
तत्केवलं सम्भवमेव काव्ये,
हे कालिदास प्रथिते त्वदीये।।
निवर्त्य सैन्यं दयितां स्वकीयाम्,
निवृत्तचेता निजराज्यभाराद्।
विहाय राजोचितदिव्यवस्त्रम्,
धेनोस्सुसेवानिरतो दिलीप:।।
सर्वा: क्रिया यस्य परं निबद्धा:,
धेन्वा सुराणां जलपानभोज्या:।
धेनो: कृतेऽयं विहरन्दिलीप:,
सुचित्रितो हे कविकालिदास।।
परं तपस्वी नृपतिर्दिलीप:,
सुताभिकांक्षी रविवंशदीप:।
स्थित: स्थितायां चलितो गतायाम्,
जलारतायां विहितो जलार्थी।।
हिंसारता ये विपिने बलिष्ठा:,
सिंहादयो दुष्टविशेषसत्त्वा:।
आगत्य तेनैव सुशिक्षिताश्च,
त्वया कृतं हे वनमेव शान्तम्।।
सेवाकृते योऽर्पितवान् स्वदेहम्,
राज्यस्य चिन्तां कृतवान्न किञ्चिद्।
सेवा हि धर्म: परमो वरेण्य:,
त्वया दिलीपे खलु दर्शितश्च।।
सेवाफलं प्राप्य न धैर्यहीन:,
गुरो: समीपे प्रथमं निवेद्य।
असौ च दुग्धं निपपौ त्वया हे,
सन्दर्शितो गोगुरुभक्तिभाव:।।







